________________
सज्झाय mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
mmmmmmmmmmmm २११
12
"आक्षीरधारेकभुजामाग:कनिवासिनाम् । नमोऽर्थेभ्यो ये पृथक्त्वं भ्रात्तृणामपि कुर्वते ।। जललवचलंमि विहवे, विज्जुलयाचटुजीविए को णु ।
घरधणकज्जे विउसो, कुणइ विवायं सबन्धूहिं ।।" इत्याद्युपदिश्याऽन्योन्यं सामन्त्यं कृतं पुत्राणाम् । एतज्ज्ञात्वा सेनस्य पन्योक्तम् - 'त्वया द्रव्यं पुत्रेभ्यो दत्त्वा भिक्षा मार्गणीया ।' सेनः प्राह -
"धर्माद्धनं धनत एव समस्तकामाः, कामेभ्य एव सुखमिन्द्रियजं समग्रम् । सौख्यार्थिना हि खलु कारणमेषणीयं, धर्मो विधेयमिति तत्त्वविदो वदन्ति ।।"
एवं भार्यां स्वस्थीकृत्य मित्रगृहे गतः, कथितश्च कुटुम्बवृतान्तः, मित्रेणोक्तम् - 'अत्र मद्गृहे तिष्ठ, यथोचितं करिष्ये, परं दोषबहुलमिदम्, यः कोऽपि वसति स म्रियते, यदि तव धर्मप्रभावाद्यन्तरः प्रसन्नो भवति।' इति मित्रोक्तं श्रुत्वा शकुनग्रन्थिं बवा गतो गृहमध्ये नैषेधिकीं कृत्वा, 'अणुजाणउ मे अवग्रहं,' इर्यां प्रतिक्रम्य स्थापनाचार्याग्रे स्वाध्यायं करोति मधुरध्वनिना ।
गयमेअज्जमहामुणि खंदगसीसाण साहुचरिआई । सुमरंतो कह कुप्पसि इत्तिय मित्ते वि रे जीव ।।१।। पिच्छसु पाणविणासे वि, नेव कुप्पंति ते महासत्ता । तुज्ज पुण हीणसत्तस्स, वयणमित्ते वि एस खमा ।।२।। [क्षमाकुलक - २,३] जं मारेसि रसन्ते, जीवे रे जीव ! निरवराहे वि ।
उवभुज्जसि तं दुःखं, एत्तो अइदारुणे नरए ।।३।। इत्यादि द्वादशभावनाभिर्द्विप्रहरं यावगुणितं, गृहाधिष्ठाता व्यन्तरोऽपि स्वजीवोपदेशरूपतदागमश्रवणतो हृष्टः । प्रसन्नात्मा प्रकटीभूय प्राह- 'हे महापुरुष ! धर्मबन्धुस्त्वं मम, अद्य त्वयाऽहं नरकपातादुद्धरितः ।' सेनः प्राह - 'कस्त्वम् ? कथं नरकादुद्धरितश्चेति निजचरित्रं कथय ।' व्यन्तरः [प्राह-] अस्य गृहस्याहं स्वामी पूर्वभवेऽभवम् । मम पुत्रद्वयमासीत् । लघुर्वल्लभो न ज्येष्ठः । अन्यदा किंचिद्दत्वा ज्येष्ठः पृथक
12. जललवचले विभवे विद्युल्लताचटुजीविते को नु । गृहधनकार्ये विद्वान् करोति विवादं सबन्धुभिः ।। 13. गज-मेतार्यमहामुनि-स्कंदकशिष्याणां साधुचरित्राणि । स्मरन् कथं कुप्यसि एतावन्मात्रेऽपि रे जीव ! ।। 14. प्रेक्षय प्राणविनाशेऽपि नैव कुप्यन्ति ते महासत्त्वाः । तव पुनः हीनसत्वस्य वचनमात्रेऽपि एतत्क्षमा ।। 15. यद् मारयसि रसान्ते जीवे रे जीव ! निरपराधेऽपि । उपभुक्ष्यसि तदुःखमेतस्मादतिदारुणे नरके ।।