________________
२१०
www.M
vNNNN
rrrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
तवं चिमं संजम-जोगयं च, सज्झायजोगं च सया अहिट्ठिए । सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ।। सज्झाय-सज्झाणरयस्स ताइणो, अपाव-भावस्स तवे रयस्स । विसुज्झइ जं सि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा ।। अमज्ज-मंसासि अमच्छरीआ, अभिक्खणं निविगई गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा ।।"
[दशवैकालिक-८/४२, ६२, ६३, चूलिका/२/७] दृष्टान्ताश्चात्रानेके । अवन्तिसुकुमाल-श्रीहरिभद्रसूरि-श्राद्धप्रतिबोधितसुरदेव्यः ।
सज्झायं सुणिऊणं जाईसरणाइ जायवेरग्गो ।
इगरयणीए पत्तो इट्ठगमवंतिसुकुमालो ।। इत्येवमवगत्य सर्वैरपि प्रतिदिनं प्रतिसमयं प्रतिक्षणं प्रतिक्षणं स्वाध्यायपरैरेव भाव्यम्। इति स्वाध्यायः ।
॥अथ स्वाध्याये सेनश्राद्धसम्बन्धः ।। कान्तीपूर्यां वरुणदेवो नृपः, श्रेष्ठी मिथ्यादृष्टिः सेनाख्यः, कुवलयमाला भार्या, हरि-हर-ब्रह्माणस्त्रयः पुत्राः । अन्यदा चतुर्ज्ञानी मुनिर्मासक्षपणपारणे तद्गृहमागतो भिक्षार्थम्, दृष्ट्वा श्रेष्ठी हष्टः । बहुदिनसक्तु-दिनद्वितीयातीतदधि-विषमिश्रमोदकादि दीयमानं निषिध्य श्रेष्ठी प्रतिबोधितः । क्रमेण श्राद्धधर्म पालयति मुनेः कुटुम्बजीवनोपकारिणो निरन्तरं गुणस्मरणपरः । एकदा सुतकलत्रकलहपरं दृष्ट्वा सुताः पृथक्कृता यथोचितद्रव्यादि दत्त्वा, लघुभ्राता ज्येष्ठेन सह कलहं कुरुते 'त्वया सर्वमपलपितमिति' कथयन् राजकुलादौ च यथातथा वक्ति च, सेनश्रेष्ठिना पापभीरुणा स्वगृहविभागं दत्त्वोपशामितः । 8. तपश्चेदं संयमयोगकं च स्वाध्याययोगं च सदाधिष्ठाता ।
शूर इव सेनया समस्तायुधोऽलमात्मनो भवत्यलं परेषाम् । 9. स्वाध्याय-सद्ध्यानरतस्य तायिनोऽपापभावस्य तपसि रतस्य । _ विशुद्ध्यते यदस्य मलं पुराकृतं समीरितं रूप्यमलमिव ज्योतिषा ।। 10. अमद्यमांसाशी अमत्सरी च अभीक्ष्णं निर्विकृतिं गतश्च । ____ अभीक्ष्णं कायोत्सर्गकारी स्वाध्याययोगे प्रयतो भवेत् ।। 11. स्वाध्यायं श्रुत्वा जातिस्मरणेन जातवैराग्यः । एकरजन्यां प्राप्तः, इष्टकमवन्तिसुकुमालः ।।