________________
२०६ ~~~~~~~~~~
...'मन्नह जिणाण आणं' स्वाध्यायः
"सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो । दव्वे चित्तयरसुआ भावेसु बहू उदाहरणा ।। गरहा वि तहा जाईअमेव नवरं परप्पगासणया ।
दव्बंमि मरुअनायं भावेसु बहू उदाहरणा ।।" [आवश्यकनियुक्ति-१०४९, १०५०] इति सम्बन्धः ।
।। अथ भावे सुकोशलर्षिकथा ।। ___अयोध्यायां प्रजापालनृपस्य श्रेष्ठीभ्यः सिद्धार्थनामा धनपतिरिति नामान्तर द्वात्रिंशत्कोटीशः, द्वात्रिंशत् भार्याः, तासु जयवती अतिप्रिया अपुत्रा, पुत्रेच्छुः, अन्यदा श्रेष्ठी पलितं विज्जारयुसं च दृष्ट्वा जातिस्मृत्या प्रव्रज्यायै उपस्थितः, मन्त्रिभिः पुत्रोत्पत्तिं यावत् स्थापितोऽन्यदा जयवत्याः पुत्रार्थं यक्षमर्चन्त्या ज्ञानमुनिनोक्तम्'जिनधर्मं कुरु, सप्तदिने ते पुत्रो भावी' । क्रमेण जातः पुत्रः सुकोशल:, सिद्धार्थस्तस्य श्रेष्ठिपदं पढें बद्ध्वा बहुसामन्तैः सह विनयन्धराचार्यपार्श्वे प्रव्रजितः । जयवतीवर्जाः सर्वपत्न्योऽपि [प्रव्रजिताः] सा च क्रुधा, मम पुत्रो बालो मुक्त इति । सुकोशलो युवा द्वात्रिंशत्कन्या विवाहितः । अन्यदा नैमित्तिकेनोक्तम्'यदायं सुकोशलः साधु द्रक्ष्यति तदा प्रव्रजिष्यत्येव ।' ततो अनया स्वगृहे साधुप्रवेशो निषिद्धः, गृहान्तरे च क्रीडास्थानानि कृतानि, अन्यदा तेन गवाक्षस्थेन मासोपवासनं मुनिं कृशतरं गृहान्तः प्रविश्य कुट्टितं निर्गच्छन्तं दृष्ट्वा पृष्टम् - कोऽयम् ? साह - 'अनाथः कोऽपि भिक्षार्थं भ्रमती'ति । तावता सूपकारेण भोजनवेला निवेदिता । जयवत्या द्वात्रिंशत्भार्याभिरपि स्वयम्प्रभा-श्रीदत्ता-मित्रवती-सुप्रभाद्याभिरूचे - 'स्वामिन् ! मज्जणयं काउं भुञ्जह । वेला वोलेत्ति ।' सुकोशलः प्राह - ‘इममर्थमज्ञात्वा न भोक्ष्ये ।' ततो निर्बन्धे धात्र्योक्तम् - 'सिद्धार्थर्षिरयं बाल्ये ते पट्टे बद्ध्वा पवईओ । सो आगन्तुं तुह मायाए दुट्ठपुरिसेहिं कुट्टाविओ निग्गओत्ति ।' सुकोशल आह - एवं मए वि कायव्वं, मुणिं पृष्टतो गओ उज्जाणे, तं दृष्ट्वा जातिस्मृतिः । आत्मनस्तस्य च प्राग्भवा दृष्टाः। यथा
मलयाद्रौ मलयसुन्दरो गजः, अहं तु मलयसुन्दरी करिणी, बीआवि पउमा नाम गजेन दाहिण पास मलयाए दिन्नं, वामं पउमाए । अन्यदा त्रयोऽपि स्नात्वा पद्मानि करे लात्वा यान्ति । तानि पढम पउमाए कुम्भे दिनाई । पच्छा मलयाए । सा ईसालू गिरिवडणेण मया । कलिंगदेशे काञ्चनपुरे नागदत्तेभ्यसुता 4. सचरित्रपश्चातापो निन्दा तस्यां चतुष्कनिक्षेपः । द्रव्ये चित्रकारसुता भावेषु बहव उदाहरणाः ।। 5. गर्दाऽपि तथा जातीयैव नवरं परप्रकाशनया । द्रव्ये मरुको ज्ञातं भावेषु बहव उदाहरणाः ।। 6. प्रव्रजितः । स आगन्तुं तव मात्रा दुष्टपुरुषैः कुट्टायितो निर्गतः, इति । 7. मयाऽपि कर्तव्यम्, मुनि पृष्टतो गत उद्याने । 8. द्वितीया पद्मा । गजेण दक्षिणपार्वं मलयायै दत्तम्, वामं पद्मायै । 9. तानि प्रथमं पद्मया कुम्भे दत्तानि, पश्चात् मलयया । सा ईर्ष्यालु: गिरिपतनेन मृता ।