________________
भावो .mmmmmmmmm
mmmmm२०५
इति । अत्रान्तरे लोकबाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः-नेह ज्ञायतेकः श्रावकः को वा नेति, लोकस्य प्रचुरत्वात्, आह भरतः-पृच्छापूर्वकं देयमिति । ततस्तान् पृष्टवन्तस्ते-को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि ?, स आह-श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि?, ते उक्तवन्त:-सप्त शिक्षाव्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरत्नेन तान् लाञ्छितवान्, पुनः षण्मासेन येऽन्ये भवन्ति तानपि लाञ्छितवान्, षण्मासकालादनुयोगं कृतवान्, एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरत्नं नासीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान्, महायशःप्रभृतयस्तु केचन रूप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीतप्रसिद्धिः ।
'अणुसज्जणा अट्ठ'त्ति अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान् यावत् तत ऊर्ध्वं मिथ्यात्वमुपगता ।
एभिरर्धभरतं सकलं भुक्तं शिरसा धृतश्च, कोऽसावित्याह-प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैः नरपतिभिः न शकितो वोढुं, महाप्रमाणत्वात् ।
अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोगः-परीक्षा, कालेनगच्छतामिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीत् ।
दानं च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात् । 'वेदे कासी अत्ति आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलस-याज्ञवल्क्यादिभिः कृता इति । __द्रव्यपूजा-द्रव्यस्तव-द्रव्य[दानाद्य-द्रव्यप्रतिक्रान्ति-द्रव्यप्रत्याख्यान-द्रव्यश्राद्धधर्मद्रव्यचारित्राणि जीवैर्बहु बहु भवेषु प्राप्तानि, न तैः कापि कार्यसिद्धिर्जाता । सूत्रेऽपि ‘सद्धा एव' इत्युक्तम्"सब्बस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो ।" । इत्यादिसूत्रेषु भावः प्रधानं कारणं मोक्षस्य। श्रीआवश्यकेऽपि -
७. 'भरतः काकणीरत्नेन तेषां लांछनं चिन्हं कृतमासीत् । त्रिरेख: पुनः षण्मासेन योग्या भवन्ति ।' हस्तः ।
८. 'अणुसज्जणा...मिथ्यात्वमुपगताः, आदित्ययशसस्तु... यज्ञोपवीत प्रसिद्धः । एतादृशः पाठः हस्त प्रतौ ।