SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २०४ mmmmmmmmmm mmm..'मन्नह जिणाण आणं' स्वाध्यायः एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अ । पवरो जिणिंदिमउडो सेसेहिं न चाइओ वोढुं ।। अस्सावगपडिसेहो छटे छटे अ मासि अणुओगो । कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ ।। दाणं च माहणाणं वेए कासी अ पुच्छ निव्वाणं । कुंडा थूभ जिणहरे कविलो भरहस्स दिक्खा य ।। [आवश्यकनियुक्ति-३६२-३६६] समवसरणं भगवतोऽष्टापदे खल्वासीत्, भक्तं भरतेनानीतम्, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान् । कतिविधोऽवग्रहः ? भगवानाह - पञ्चविधोऽवग्रहः, तद्यथा - देवेन्द्रावग्रहः, राजावग्रहः, गृहपत्यवग्रहः, सागारिकावग्रहः सार्मिकावग्रहश्च । राजा - भरताधिपो गृह्यते, गृहपतिः - माण्डलिको राजा, सागारिकः - शय्यातरः, सार्मिकः - संयत इति, एतेषां चोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह - भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत् - अहमपि स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान् - ___ भक्तपानमिदमानीतम्, अनेन किं कार्यमिति, देवराडाह-गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्, के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः ?, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति । पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा पृष्टवान्-किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात्, पुनरप्याह भरतः-तस्याकृतिमात्रेणापि अस्माकं कौतुकम्, तन्निदर्श्यताम्, देवराज आह-त्वमुत्तमपुरुष इतिकृत्वा एकमङ्गावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गुलीमत्यन्तभास्वरामदर्शयत्, दृष्ट्वा च तां भरतोऽतीव मुमुदे, शक्राङ्गली च स्थापयित्वा महिमामष्टाह्निकां चक्रे, ततः प्रभृति शक्रोत्सवः प्रवृत्त इति । भरतश्च श्रावकानाहूय उक्तवान् - भवद्भिः प्रतिदिनं मदीयं भोक्तव्यम्, कृष्यादि च न कार्यम्, स्वाध्यायादिपरैरासितव्यं भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैः वक्तव्यम्-जितो भवान्, वर्धते भयं तस्मान्मा हन मा हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागरावगाढत्वात् प्रमत्तत्वात् तच्छब्दाकर्णनोत्तरकालमेव केनाहं जित इति, आः ज्ञातं-कषायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्वं संवेगं यातवान्
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy