SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ [भावो] [१४-भावः] अथ भावनां दर्शयति । सकलोऽपि श्रीजिनधर्मो भावनापूर्वकं एव कृतः पुंफलीति, नान्यथा । यतः तथा - “घनं वित्तं दत्तं जिनवचनमभ्यस्तमखिलम्, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । तपस्तप्तं तीव्रं चरणमपि चीर्णं चिरतरम्, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ।।” 1 [सुक्तमुक्तावली -१११/१३] “ज्वालाभिः शलभाः जलैर्जलचराः स्फूर्जज्जटाभिर्वटाः, मौण्ड्यैरूरणकाः समस्तपशवो नाग्न्यैः खरा भस्मभिः । कष्टाङ्गीकरणैर्द्रुमाः शुकवराः पाठैर्बका ध्यानकैः, किं सिध्यन्ति न भावशुद्धिविकलाः स्युश्चेत् क्रियाः सत्फलाः ।।” [गुरुगुणषट्त्रिंशिका - २ वृत्ति ] सर्वमपि धर्मानुष्ठानं विधानं परापेक्षमेव, भावना त्वेकैवात्मापेक्षा । यतः “वित्तसाध्यमिह दानमुत्तमं शीलमप्यविकलं सुदुर्द्धरम् । दुष्कराणि च तपांसि भावना, स्वीयचित्तवशगेति भाव्यताम् ।। " भावनाधर्म एव केवलो विधीयमानो महागुणः श्रीजिनादिभिः प्रदर्शितः । यतः “विश्वश्रीवश्यमूलं विषयरतिमहाशाकिनीमोक्षमन्त्रः, कल्याणाम्भोजवापी स्फुर[प्रविषम] दुरितोदन्वदुत्तारपोतः । वैराग्याकृष्टविद्या सदुपशमपयः पुष्करावर्तमेघः, कैवल्याद्वैतमूलं जगति विजयते भावनाधर्म एकः ।।" [ ] १.' दत्तं वित्तं' सुक्तमुक्तावल्याम् । २. 'भटाः' हस्त० । ३. 'वाग्भिर्बका ध्यानतः ' हस्त० । ४. 'शुध्यन्ति' हस्त० । ५. 'शश्वक्रिया निष्फलाः ' हस्तः ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy