________________
तवो
14
"जाईमयावलेवा मायंगकुलंमि एस उप्पन्नो ।
सोहग्गरूवरहिओ, निअबन्धूणं पि हणिजो ।। "
२०१
विषवृक्ष इव सर्वेषामुद्वेजकः, कलहित्वाद्वालैर्बहिष्कर्षितः । ताइं रमन्ताई पेच्छइ । [तान् रममाणान् पश्यति] 'तस्मिन्नवसरे तत्र सर्पो निर्गतः । सविष इति कृत्वा चाण्डालैर्मारितः, पुनस्तत्र प्रलंबमलशिकं निर्गतम्, निर्विषमिति कृत्वा तैर्न विनाशितम्, तादृशमारणं दृष्ट्वा तेन बलबालेन चिन्तितम् - निजेनैव दोषेण प्राणिनः पराभवं सर्वत्र प्राप्नुवन्ति । यद्यहं सर्पसदृशः सविषस्तदा पराभवपदं प्राप्तः, यद्यलसिकवन्निरपराधोऽभविष्यम्, तदा न मे कश्चित्पराभवोऽभविष्यदिति सम्यग् विभावयन् जातिं स्मृत्वा विरक्तो मातङ्गमहर्षिर्जातः । विहरन् वाणारस्यां तिण्डुकोद्याने स्थितः । तत्र गण्डी तिण्डुकाख्यो यक्षस्तद्गुणरञ्जितो नित्यमुपास्ते । सोऽन्ययक्षेण पृष्टः, 'किं चिराद्दृश्यसे ?' 'महर्षिसेवा वैयग्ग्रात्,' स प्रत्याह - 'धन्यस्त्वं, ममाप्युद्याने सन्ति ऋषयः । उभावपि गतौ, दृष्टास्ते विकथां कुर्वाणाः । ततः
15
" इत्थीण कहित्थ वट्टई जणवयरायकहित्थ वट्टई ।
भिक्खाईकहित्थ वट्टई, गच्छामो पुण तिण्डुअं वणं ।। "
इत्युक्त्वा पश्चादेवागतौ । अन्यदा कोशलिकनृपसुता भद्राख्या सपूजोपस्करपरिकरा यक्षमभ्यर्च्य प्रदक्षिणयन्ती कुरूपं कृशाङ्गं तमृषिं दृष्ट्वा मोठ्याज्जुगुप्सापरा निष्ठ्यूतवती, रुष्टेण यक्षेण गृहिली कृता । राज्ञा बहुप्रतीकारैरपि गुणेऽजाते यक्षः पात्रेऽवतीर्णः प्राह 'अनया ऋषिर्निन्दितः । यदीमां तस्यैव दत्तं तदा मुचे ।' प्रतिपन्ने मुक्ता, ततः कृतश्रृंगारात्तविवाहोपस्कारा गत्वां हिलनेन ऋषि व्यजिज्ञपत्। स्वयंवरां मां स्वीकुरु । ऋषिणा निजाचारकथने निषिद्धा, यक्षेण त्वमर्षाद् ऋषिरूपं प्रच्छाद्य नानारूपैरुद्वाह्य सव्विंपि रयणि वेलविआ । [सर्वामपि रजनिं वञ्चित प्रातः सा तत्स्वप्नवद्विदन्ती गृहमायती रुद्रदेवपुरोधसा ज्ञातवृतान्तस्य नृपस्याग्रे उक्ता देवेयमृषिपत्नी, तन्मुक्ता, विप्राणामर्हति । राज्ञापि तदेवोचितं ज्ञात्वा दत्तास्यैव, तस्स भोगे भुंजओ जाइ कालो, अण्णया बाहिं रुद्देदेवेण जणं कयं, पत्नी कया, अणेगे तत्थ भट्टचट्टाइणो आगया । तत्थ भिक्खट्ठाए विहरन्तो हरिएसबलो आगओ । शेषं श्रीउत्तराध्ययनसूत्राज्ज्ञेयम् ।।
16
।। इति तपसि हरिकेशबलर्षिकथा ।।
।। इइ तव ।।
१. 'तस्मिन्... सम्यग् ' इति पाठस्थाने 'अन्यदा सर्प चाकलुण्ड व्यतिकरेण दोषगुणयोरेव विपत्संपद्वेनुताम्' हस्तप्रतौ । 14. जातिमदावलेपो मातङ्गकुले एष उत्पन्नः । सौभाग्यरूपरहितो निजबन्धूनामपि हसनीयः ।। 15. स्त्रियाः कथाऽत्र वर्तते, जनपदराजकथाऽत्र वर्तते । भिक्षादिकथाऽत्र वर्तते, गच्छामः पुनः तिण्डुकं वनम् ।। 16. तस्य भोगान् भुञ्जन् याति कालः, अन्यदा बाहिं रूद्रदेवेन यज्ञः कृतम्, सा यज्ञपत्नी कृता, अनेकास्तत्र भट्टचट्टादय आगताः । तत्र भिक्षार्थं विहरन् हरिकेशबल आगतः ।