SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २०० mmmmmmmmm ~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः तपस्तु यादृशं तादृशं क्रियमाणं विरतितयैव ख्याप्यते । विरतिस्तु मनुष्यजन्मन्येव नान्येषु त्रिषु । तेन भो भव्याः - विरतिसाधनसाधनमुत्तरं नरभवं समवाप्य सुदुर्लभम् । भविजना ! अवदातमनोधना ! विरतिरूपतपः कुरुतानिशम् ।। [ ] तपःफलं तु - "सदोषमपि दीप्तेन, सुवर्णं वह्निना यथा । तपोऽग्निना तप्यमान-स्तथा जीवो विशुध्यति ।।" योगशास्त्र-४/८८] तपस्तु श्रीवीरवत्कृतं निर्जरायै मोक्षाय च स्यात् । तथा - "नव किर चाउम्मासे छक्किर दोमासिए उवासीय । बारस य मासियाई बावत्तरि अद्धमासाइं ।।" [आवश्यकनियुक्ति-५२८] इत्यादि । कथा - ।। अथ तपसि हरिकेशबलर्षिकथा ।। मथुरायां शंखनृपः स राज्यं प्रपाल्य प्रव्रजितो गीतार्थो हस्तिनापुरमागतः । तत्थ य भिक्खानिमित्तं णिग्गएण हुअवहरत्था । आसन्नगवक्खसंठिओ पुच्छिओ सोमदेवाभिहाणो पुरोहिओ, किमणेण मग्गेण वच्चामि, तेण वि एएण हुअवहपहेण गच्छन्तं डज्झन्तं पेच्छिस्सामिति चिन्तिऊण भणिअं वच्चसु । पयट्टो मुणी । पुरोहिओ अतुरिअमिरिंउवउत्तं तं वच्चन्तं दगुण विम्हिओ गओ, तेण मग्गेण जाव हिमफाससरिसो । ततः स्वदुरध्यवसाय पश्चात्तापपरो गत्वा ननाम ऋषि धर्मं श्रुत्वा प्रव्रजितः । जातिरूपादिमदवान् मृत्वा स्वः च्युत्वा गङ्गातीरे बलकोट्टाख्यहरिकेशपतेगौरीजः कुसुमितचूतस्वप्नसूचितः पुत्रो जातः । सोमदेव जीवः बलो नाम, 12. नव किल चातुर्मासिकानि षट् किल द्विमासिकानि उपोषितवान् । द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकानि।। 13. तत्र च भिक्षानिमित्तं निर्गतेन हुतवहरथ्या । आसन्नगवाक्षसंस्थितः पृष्टः सोमदेवाभिधानः पुरोहितः, किमनेन मार्गेण व्रजामि ? तेनापि खु एतेन हुत वहपथेन गच्छन्तं दह्यमानं प्रेक्षीष्ये इति चिन्तयित्वा भणितं व्रज । प्रगतो मुनिः । पुरोहितोऽतुर्यमिर्यामुपयुक्तं तं व्रजन्तं दृष्ट्वा विस्मितो गतः, तेन मार्गेण यावत् हिमस्पर्शसदृशः ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy