________________
तवो
पूर्वाचार्यैर्बहुनिर्णीतत्वात् । तपसि ईशानेन्द्रो राजगृहे श्रीवीरं शुद्धभावं नत्वा भक्तिभावितनिजस्वान्तो द्वात्रिंशद्वद्धं नाट्यं विधाय दिवि प्रापत् । श्रीगौतमपृष्टः
श्रीवीरस्तद्भवं प्राह
-
।। अथ तामलितापसकथा ।।
ताम्रलिप्त्यां मौर्यपुत्रस्तामलिनामा गृहपतिर्धनी, वैराग्यात्सर्वेषां देवनृपश्वादीनामविशेषेण प्रणामकरणरूपां प्रणामी दीक्षां प्रपन्नः । ऊर्ध्वबाहुरभिसूर्यमातापयन्नित्यषष्टतपाः पारणके केवलौदनम् एकविंशतिवारान् जलेन प्रक्षाल्य पारयन् षष्ठीसहस्रवर्षपर्यायः पादपोगमनानशनमाश्रितः । तदानीं बलिचञ्चावास्तव्यैरसुरैरनिन्द्रैरागत्य द्वात्रिंशद्वद्धनाट्यविधिं विधाय, बलीन्द्रत्वनिदानाय भृशं प्रार्थ मौनी तदकृत्वा ईशाने इन्द्रत्वेनोत्पेदे । तदानीं बलिचञ्चासुरैरागत्य कदर्थ्यमानं निजशरीरमवधिना देवेभ्यश्च ज्ञात्वा रुष्टो दृशैव बलिचञ्चा भस्मीचकार । तैर्भीतैः क्षमितः स्वतेजोलेश्यां संहृत्य तां तथावस्थां चकार । ततो बलिचञ्चासुरा ईशानेन्द्रस्याज्ञापरा बभूवुः । ईशानेन्द्रः साधिकद्विसागरायुरनन्तरं महाविदेहे सेत्स्यति । ।। श्री भगवती ३ शतके १ उद्देशे ।।
।। इति तामलितापसकथा ||
अनादिनिधनैर्जीवैस्त्वाहारादय एवं भुक्ताः । यतः
9
"हिमवंत - मलय-मंदर- दीवोदहि-धरणिसरिसरासीओ ।
अहिअयरो आहारो, छुहिएणाहारिओ होज्जा ।।
१९९
-
10
जंण जलं पीयं, घम्मायवजगडिएण तं पि इहं ।
सव्वेसु वि अगड-तलाय - नई - समुद्देसु न वि होज्जा ।। " [ उपदेशमाला - १९८-१९९]
किं बहुना
11
"पीयं थणयच्छीरं, सागरसलिलाओ होज्जा बहुययरं ।
संसारम्मि अणंते, माऊणं अन्नमन्नाणं ।। "
[उपदेशमाला- २००]
9. हिमवन्त-मलय-मन्दर- दीपोदधि-धरणिसदृशराशेः । अधिकतर आहारो क्षुधितेनाहारितो भवेत् ।।
10. यदनेन जलं पीतं ग्रीष्मातपाभिभूतेन तदपि इहलोके । सर्वेष्वपि अवट - तडाग - नदी समुद्रेषु नापि भवेत् ।। 11. पीतं स्तनकक्षीरं सागरसलिलाद् भवेद् बहुतरम् । संसारेऽनन्ते मातॄणामन्यान्यासाम् ।।