________________
१९६
मन्नह जिणाण आणं' स्वाध्यायः
गत्वोद्यानेऽन्यदा सोऽथ, प्रसुप्तः कदलीगृहे । कुतश्चिदथ तत्रागात्, व्यन्तर्येका सुरूपिका ।।४१।। तद्रूपमोहिता साऽथ, तत्पत्नीरूपधारिणी । सविकारवचांस्युच्चैर्वदन्ती तमुपस्थिता ।। ४२ ।। दध्यौ सुरप्रियोऽप्येवं नूनमेषा न मे प्रिया । निस्त्रपाऽनिमिषाक्षीति, त्यक्त्वा तां स्वगृहं ययौ ।। ४३ ।। गत्वा पत्ये शसंसैषा, यथानेन द्विजन्मना । प्रार्थिताऽहं ततो दुष्टान्नष्टा कष्टेन धार्यतः ।। ४४ ।। क्रुद्धस्तं व्यन्तरो हन्तुं यावदागाद्दिनात्यये । वासागारं ययौ तावत्, सप्रियोऽपि सुरप्रियः ।।४५।। स्वप्रिया तेन पृष्टाऽथ, किमद्य त्वं वनेऽगमः । कर्णो पिधाय साऽवोचदाः किमेवमिहोच्यते ।। ४६ ।। न यान्त्यन्या अपि स्वामिन्नेकाकिन्यः कुलस्त्रियः । स्नुषापि श्रीप्रभासस्य, कथं यास्याम्यहं वने ।। ४७ ।। परमाख्याहि मे सत्यं किमत्र प्रश्नकारणम् । यथावृत्तमथाचख्यो, व्यन्तर्याश्चेष्टितं ततः ।। ४८ ।। श्रुत्वेति व्यन्तरो ज्ञात्वा, स्वपत्न्या दुष्टचेष्टितम् । दध्यौ धिगस्तु नारीणां दुःशीलत्वकुलौकसाम् ।। ४९ ।। ततः सुरप्रियं प्रोचे, वृत्तान्तं स्वं निवेद्य सः । तुष्टोऽस्मि तव शीलेन, महासत्त्व ! वरं वृणु ।। ५० ।। सोऽप्यूचे यन्मया प्राप्तो धर्मस्तदपरेण किम् । भूयोऽपि व्यन्तरोऽवादीदमोघं देवदर्शनम् ।। ५१ ।। सोऽवदत्तर्हि मे ब्रूहि, स्फुटमायुः कियच्चिरम् । व्यन्तरोऽथ जगादैवं मासमात्रमतः परम् ।। ५२ ।। श्लाघमानस्ततस्तस्मै, तथा तस्य गृहाङ्गणे । स्वर्णवृष्टिं विधायोच्चैर्व्यन्तरो ऽसौ तिरोदधे ।। ५३ ।। सुरप्रियोऽर्हतोऽचित्वा, लात्वा संस्तारकव्रतम् । मासं संलिख्य मृत्वा च, देवोऽभूदच्युते दिवि । । ५४ ।। उत्कृष्टस्थितिरुत्कृष्टान्, भोगांस्तत्रानुभूय सः । च्युत्वोत्कृष्टव्रतात्सर्वोत्कृष्टस्थानमवाप्स्यति ।।५५ ।। इति निशम्य सुरप्रियवृत्तकं विदुरचित्तचमत्कृतिकारकम् । सुखयशःशिवभूरुहकाननं कुरुत तुर्ययमप्रतिपालनम् ।।५६।।
।। इति शीले सुरप्रियकथा ।।
[इइ सीलं]