________________
सीलं
१९५
मातङ्गीपुत्रिकासक्तमियं ज्ञात्वा निजं पतिम् । ततस्तस्मिन् विरक्तत्वात्स्वीचक्रे मयका प्रभो ! ।। १८ ।। मुनिराख्यदथो भद्र ! परस्त्रीगमनं नृणाम् । कलङ्कः स्वकुलस्यात्र, वैराकीर्त्योश्च कारणम् ।।१९।। अमुत्र तु तदासक्ता, नरके दुःखमुज्ज्वलम् । सासह्यन्ते ज्वलत्ताम्रपुत्रिकालिङ्गनादिकम् ।। २० ।। अत्रान्तरे स्त्रियस्तस्याः, पतिरागादुदायुधः । उच्चैरनङ्गकेतुं तं तर्जयन् वीक्ष्य सोऽप्यथ ।। २१ ।। रे मातङ्गीपते ! नूनं मृतोऽस्यद्य स्वकर्मभिः । क्षिपन्नेवमढौकिष्टानङ्गकेतुर्युधे(धि) द्रुतम् ।।२२।। तौ द्वावपि चिरं युद्धा, मिथोघातान्मृतिं गतौ । स्त्री साप्युपपतेर्देहं गृहीत्वाऽग्रिमसाधयत् ।।२३।। शोचन्तं तमथो वीक्ष्य, चारणश्रमणं मुनिम् । जयमाली जगादैवं किं यूयं शोकसङ्कुलाः ।।२४।। सोsवादीदेष मे भ्राता, नमस्कारविवर्जितः । पापादस्मादकस्माद्धि, मृत्युमापेति शुक् मम ।। २५ ।। जयमाली मुनिं नत्वा, परस्त्रीगमनव्रतम् । ययाचे सोऽप्युवाचास्य, स्वरूपं प्रथमं शृणु ।। २६ ।। परेषामात्मभिन्नानां स्त्रियस्ताश्च पुनर्द्विधा । वैक्रियौदारिकभेदाद्देवतिर्यग्नरस्त्रियः ।। २७ ।। द्विधाताः परिणीताश्च, संगृहीताश्च तासु या । यथागृहीतभङ्गेन, विरतिस्तदिह व्रतम् ।।२८ । । युग्मम् ।। अत्रापरिगृहीताद्या वर्ज्याः पञ्चातिचारकाः । फलमस्य यशः कीर्त्तिसौभाग्यस्वर्गितादिकम् ।। २९ ।। व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये । लभन्ते ते हि दौर्भाग्यं षण्ढत्वं दुर्गदुर्गतिम् ।। ३० ।। श्रुत्वेति नृपपुत्रोऽपि ज्ञाततत्त्वो विशेषतः । जग्राह तन्मुनेः पार्श्वे, तुरीयं तदणुव्रतम् ।।३१।। मुनिस्तार्क्ष्य इवोत्पत्य, व्योम्नान्यत्र ततो ययौ । मन्यमानः कृतार्थं स्वं राजपुत्रोऽप्यगाद् गृहम् ।।३२।। सोऽथापरिगृहीतादिदोषाणां विषयीकृतः । सौभाग्यात्पुरनारीभिर्नातिचारीन्निजं व्रतम् ।।३३।। सभासीनेऽन्यदा तस्मिन्, प्रवृत्तं वर्णवर्णनम् । वर्णेषु सर्ववर्णानां रक्षणात् क्षत्रियो वरः ।। ३४ ।। श्रुत्वेति स मदं जातेः कृत्वा मृत्वा च नाक्यभूत् । आद्यस्वर्गे ततश्युत्वा सोऽयं ते तनयोऽजनि । । ३५ ।। तदेष प्राग्भवे सम्यक्, तुर्याणुव्रतपालनात् । सुभगोऽपि सुरूपोऽपि, शीलं न स्खलयिष्यति ।। ३६ ।। सुरप्रिय इति श्रुत्वा, जातजातिस्मृतिर्जगौ । व्रतायास्य मुनेः पार्श्वे, द्राक् विसर्जय मां पितः ! ।। ३७ ।। यज्ञप्रियो जगादैवं कियत्कालं विलम्बय । प्रस्तावे प्रव्रजिष्यावः, श्रीप्रभासस्य संनिधौ ।। ३८ ।। ततो धर्मरुचेः पार्श्वे, यतिधर्मप्रियोऽपि हि । गृहिधर्मं पितुर्वाक्यात्, प्रतिपेदे सुरप्रियः ।। ३९ ।। मुनिस्ताननुशिष्यैवं विजहार ततः पुरात् । सुरप्रियस्तु तं धर्मं पालयामास शुद्धधीः ।।४० ।।