________________
१९४ AMMAR
.maa.'मन्नह जिणाण आणं' स्वाध्यायः
ततस्तास्वेका चन्दनविलिप्ता गता, द्वितीया नेत्रपट्टबन्धं कृत्वा, तृतीया विवस्त्रैव, नीचकुलत्वात्ततस्तासां क्रमात् पाण्डु-धृतराष्ट्र-विदुराः पुत्रा जातास्ततः पाण्डोः पुत्राः पाण्डवाः । ते च कुण्डा अमृते भर्त्तरि जारजः कुण्ड इति वचनात् । जारजत्वं च तेषां धर्मपुत्रो युधिष्ठिरः १ वायुपुत्रो भीमः २ इन्द्रपुत्रोऽर्जुनः ३ अश्विनीकुमारस्य नकुलसहदेवौ ५ । इति लौकिकः।।
तथा -
।। अथ शीले सुरप्रियकथा ।। मगधेषु पुरं राजगृहं तत्र द्विजोऽभवत् । प्रभासगणभृद्धाता, श्राद्धो यज्ञप्रियाभिधः ।।१।। प्रिया यज्ञयशास्तस्य, तनयश्च सुरप्रियः । रूपसौभाग्यशीलाद्यैः, यः सुराणामपि प्रियः ।।२।। आयान्तमन्यदा राजगृहे धर्मरुचिं मुनिम् । प्रभासः स्माह तत्रानुशिष्ट्यै यज्ञप्रियं द्विजम् ।।३।। अगान्मुनिः क्रमाद्यज्ञप्रियौकः सोऽपि वीक्ष्य तम् । ससंभ्रममथोत्थाय, डुढौके स्वयमासनम्।।४।। तत्रासीनं ववन्दे तं विप्रस्तत्स्वजनास्तथा । मुनिस्तान्वन्दयामास, श्रीवीरं सपरिच्छदम् ।।५।। तानूचे चा(सो)ऽनुशास्त्येवं प्रभासो मन्मुखेन वः । मनुष्यत्वादिसामग्री युष्माभिः प्राप्य दुर्लभाम्।।६।। धर्मकार्येषु नो कार्यों भोः प्रमादो मनागपि । द्विजोऽपि तन्मुनेर्वाक्यं तथेति प्रत्यपद्यत ।।७।। मुनिर्जगाद किं स्वानि, निर्वहन्ति व्रतानि वः । त्वत्प्रसादादियत्कालं नियूढानीति सोऽवदत् ।।८।। अतः परं तु नो वेद्धि, यत्पुत्रो मे सुरप्रियः । सौभाग्यातिशयास्त्रीभिः, प्रार्थ्यतेऽसौ पदे पदे ।।९।। भगवनिर्मलं शीलं यद्ययं खण्डयिष्यति । भावी ध्रुवं कलङ्को मे, शरच्चन्द्रोज्ज्वले कुले ।।१०।। मुनिरूचे विषादीर्मा, नैवाकृत्यं करिष्यति । पुण्यानुबन्धिपुण्यानुभावादेष महामतिः ।।११।। श्रुत्वेति परितुष्टोऽसौ, नत्वाऽप्राक्षीत्पुनर्मुनिम् । किं कृतं सुकृतं पूर्वभवेऽनेनेति कथ्यताम् ।।१२।। मुनिराख्यदसौ वाराणसीपुर्यां पुराभवे । राज्ञोऽरिमर्दनस्याऽभूज्जयमालीति नन्दनः ।।१३।। सोऽगात्क्रीडार्थमुद्याने, वसन्ततिलकेऽन्यदा । चारणश्रमणं तत्रैक्षिष्टाशोकतरोस्तले ।।१४।। नत्वा तं भक्तितस्तस्य, पुरो यावनिषेदिवान् । तावत्तत्राययौ स्त्रीयुक्, खेचरोऽनङ्गकेतुकः ।।१५।। वन्दित्वाऽथ निषण्णं तं मुनिः पप्रच्छ खेचरम् । सुरूपा दृश्यते केयमबला बलशालिका ।।१६।। मुनिं नत्वाऽथ सोऽवादीत्, जपावनतकन्धरः । ताराचन्द्राभिधानस्य, सुतेयं खेचरेशितुः ।।१७।।