SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सीलं १९३ पंक- परिताविआओ, ववगयखीरदहि- णवणीअ - सप्पि - तेल्ल-गुल- लोण - महु-मज्ज-मंसपरिचत्तकयाहाराओ, अप्पिच्छाओ, अप्पारंभाओ, अप्पपरिग्गहाओ, अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणीओ, अकामबंभचेरवासेणं तामेव पइसेज्जं नाइक्कमंति, ताओ णं इत्थिआओ एयारूवेणं विहारेणं विहरमाणीओ बहूइं वासाई सेसं तं चेव जाव अन्नयरेसु ठाणमंतरेसु उववज्जंति, तं चेव जाव चउसट्ठि वाससहस्साइं ठिई पण्णत्ता । " औपपातिकोपाङ्गे । शीले सम्बन्धः " कानानस्तु पितामहः समभवत्पित्रादयो गोलका : ; सम्भूताः पृथगन्यतातजनिताः कुण्डा ह्यमी पाण्डवाः । २९ सर्वेषां द्रुपदात्मजा सहचारी युद्धे हता बान्धवाः ; श्रीकृष्णेन कुलं कलंकमलिनं, नीतं जगद्वन्द्यताम् ।।" भृगुकच्छे काचिन्मात्स्यिकसुता मत्स्यगन्धाभिधा स्वपितृपुण्यहेतवे नावं वाहयति । एकदा पाराषरऋषिस्तन्नावा नदीमुत्तरन् रागान्मत्स्यगन्धां याचित्वा धूमरीं विकुर्व्य बुभुजे । ततस्तदेव माहात्म्यात्तत्र तस्यां पुत्रजन्म । ततो मातुर्हिया स तदैवाकाशे गतः । ऋषिपुत्रत्वात्तेन गच्छता मातुरित्युक्तं त्वयाऽहं कार्ये स्मर्त्तव्यः । ऋषिस्तु तामक्षतयोनिं कृत्वा मत्स्यगन्धां व्यपोह्य योजनगन्धां कृत्वा गतः । इतश्च राजा शान्तनुः भृगुकच्छे नदीतीरे गतः । तां दृष्ट्वा मोहः [ मोहितः ], ततो राजा तत्पितरं तां या । स न ददाति । विमुखः स्वपुरं गतः, तदा राज्ञः पुत्रेण गाङ्गेयेन राजा विच्छायो दृष्टः । मन्त्रिणः पृष्टाः, तै राज्ञो योजनगन्धानुरागादि प्रोक्तम्, ततो गाङ्गेयः पितृभक्त्या ब्रह्मव्रतोच्चारं कृत्वा लोकरूढ्या भीष्मकर्म कृत्वा योजनगन्धापितृपार्श्वे कथितः वृत्तान्तः, ततो राज्ञा तस्या आदानं कृतम् पुनस्तन्नाम तदा सत्यवतीति । ततस्तस्याश्चित्रविचित्रौ सुतौ जातौ । ततः शान्तनुमृते चित्रो नीलविद्याधरेण हतः । स च विद्याधरो गाङ्गेयेन हतः । ततो विचित्रवीर्यो राजा जातः । ततः पुनरेकदा वाणारसीराज्ञो अम्बिका १ अम्बाला २ अम्बा ३ इति कन्यात्रयं स्वयंवरमण्डपे भीष्मेन हृत्वा स्वभ्रातुर्विचित्रवीर्याय दत्तम् । स तदत्यन्तरागात् क्षयी जातः, असुतो मृतः । ततो राज्यधरसुताभावात् सत्यवत्या कन्यावस्थाजातकृष्णद्वीपायनपुत्रस्मरणम्, तदागमनम्, स्वमातुः कथनम् । यत्स्ववध्वो विवस्त्रा मत्दृष्टौ प्रेष्या इति, २६. 'अप्पिच्छाओ अप्पारंभाओ अप्परिग्गहाओ' हस्त० नास्ति । २७. 'अप्पेणं आरंभसमारंभेणं' हस्त० नास्ति । २८. 'तं चेव... उववज्जंति' अयं पाठो मुद्रितौपपातिकसूत्रे नास्ति । २९. पत्यौ जीवति कुण्डः स्यात् - मनुस्मृतौ ३ - १७४
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy