________________
866 ~~~~~~
स्वदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं, परदारान् कथं व्रजेत् ।। विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः ।। लावण्यपुण्यावयवां, पदं सौन्दर्यसम्पदः । कलाकलापकुशला-मपि जह्यात्परस्त्रियम् ।।
अकलङ्कमनोवृत्तिः, परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः, सुदर्शनसमुन्नतेः ।। "
स्त्रियापि पुरुषस्पृहापि त्याज्या
-
"ऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण इव, त्याज्यो नार्या नरः परः ।। "
परस्त्रीपुरुषसक्तानां पुंसां स्त्रीणां च फलम् -
" नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चा-न्यकान्तासक्तचेतसाम् ।।"
ऐहिकं ब्रह्मचर्यफलम्
" प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्यं, पूजितैरपि पूज्यते ।। "
पारलौकिकं फलम्
मन्नह जिणाण आणं' स्वाध्यायः
“चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ।। "
[योगशास्त्र-२।९३-१०१]
[योगशास्त्र-२ ।१०२]
[ योगशास्त्र - २ ।१०३]
[ योगशास्त्र - २ ।१०४]
[योगशास्त्र- २ ।१०५]