SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Per ~~~~~~~~ श्रीउत्तराध्ययनेऽपि 28 " सल्लं कामा विसं कामा, कामा आसीविसोवमा । का पत्थेाणा, अकामा जंति दुग्गई ।। " अन्यत्राऽपि ~~~'मन्नह जिणाण आणं' स्वाध्याय: "ऐश्वर्यस्य विभूषणं चतुरता, शास्त्रस्य वाक्संयमो; ज्ञानस्योपशमः श्रुतस्य विनयो, वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवतो, धर्मस्य निर्वाच्यता; सर्वेषामपि सर्वकालजनितं शीलं परं भूषणम् ।।” [जैनसुक्तसंदोह-६०/१] 29 44 "खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिकामसुक्खा । संसारमुक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ।। " [उत्तराध्ययन- ९/५३, [उत्तराध्ययन-१४/१३] तेनैतस्यैव दुष्प्रतिपाल्यत्वम् । अवगतजिनागमरहस्यानां तु सुपाल्यमपि । यतः श्रीपरमगुरु-श्रीरत्नशेखरसूरिविरचितस्तोत्रे "मधुकरपरिस्निग्धैर्मुग्धैरपाङ्गतरङ्गितैः ; सुललितदृशस्तावच्चेतोहरा हरिणीदृशः । विलसन्ति वचश्चित्ते यावन्न ते भगवन् ! पुनः; न तु विलसिते तस्मिन् किं तास्तृणादतिशेरते ।। " [ ] तदेतदेव व्रतं प्रतिपालयितुं दुःशक्यमपि प्रतिपालितमेव श्रेयस्करं पुण्यप्राप्तिवृद्धिकरं संसारपरीत्तताकरं च स्यात् । शुद्धब्रह्मव्रतपालनोपायः श्रीउत्तराध्ययनोक्तोऽवगन्तव्यः । 28. शल्यं कामा विषं कामाः कामा आशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ।। 29. क्षणमात्रसौख्याः बहुकालदुक्खा:, प्रकामदुःखाः अनिकामसौख्याः । संसारमोक्षस्य विपक्षीभूताः खानिः अनर्थानां तु कामभोगाः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy