________________
सील
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm १८३
"जो कुणइ अप्पमाणं, गुरुवयणं न य लएइ उवएसं । सो पच्छा तह सोयइ, उवकोसघरे जह तवस्सी ।। जेटुव्वयपव्वयभर-समुब्वहणववसियस्स अच्चंतं । जुवइजणसंवइयरे, जइत्तणं उभयओ भटुं ।। जइ ठाणी जइ मोणी, जइ मुंडी वक्कली तवस्सी वा । पत्थिंतो य अबंभं, बंभा वि न रोयए मझं ।। तो पढियं तो गुणियं, तो मुणियं तो य चेइओ अप्पा ।
आवडियपेल्लियामंतिओ, वि जइ न कुणइ अकज्जं ।।"[उपदेशमाला-६०-६३] ननु सर्वाण्यपि व्रतानि नियमाश्चाऽभिग्रहाः सामान्यजनैः दुष्प्रतिपाल्या एव । एतस्यैवैकस्य व्रतस्य दुष्प्रतिपाल्यत्वं विशिष्यतया किमुच्यते ? सत्यम्, व्रतादयः सर्वेऽपि दुष्प्रतिपाल्या एव, तथापि तेभ्योऽपि सर्वेभ्योऽप्येकमिदमेव व्रतं धीरैः कापुरुषैरपि दुष्प्रतिपाल्यमेव । यतः -
"पत्ता य कामभोगा, कालमणंतं इहं सउवभोगा ।
अपुव्वं पिव मन्नइ, तह वि य जीवो मणे सोक्खं ।। सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी । कामग्गहो दुरप्पा, जेणऽभिभूयं जगं सव्वं ।।"[इन्द्रियपराजयशतक-१३, २५] "विसयविसं हालहलं, विसयविसं उक्कडं पियंताणं ।
विसयविसाइन्नं पिव, विसयविसविसइया होइ ।।" [उ.मा.-२०१, २०९, २१२] 21. यः करोत्यप्रमाणं गुरुवचनं न च लभते उपदेशम् । स पश्चात्तथा शोचति उपकोशागृहे यथा तपस्वी ।। 22. ज्येष्ठव्रत-पर्वतभार-समुद्वहनव्यवसितस्यात्यन्तम् । युवतिजनसंव्यतिकरे यतित्वमुभयाभ्यां भ्रष्टम् ।। 23. यदि स्थानी यदि मौनी यदि मुण्डी वल्कली तपस्वी वा । प्रार्थयन् चाब्रह्म ब्रह्मापि न रोचते मह्यम् ।। 24. ततः पठितं ततः गुणितं ततः मुणितं ततश्च चेतित आत्मा । आपतित-प्रेरितामन्त्रितोऽपि यदि न करोत्यकार्यम्।। 25. प्राप्ताश्च कामभोगाः कालमनन्तमिह सोपभोगाः । अपूर्वमिव मन्यते तथापि च जीवो मनसि सौख्यम् ।। 26. सर्वग्रहाणां प्रभवो महाग्रहो सर्वदोषप्रवर्तकः । कामग्रहो दुरात्मा येनाभिभूतं जगत्सर्वम् ।। 27. विषयविषं हालाहलं विशदविषमुत्कटं पिबताम् । विशदविषाजीर्णमिव विषयविषविसूचिका भवति ।।