________________
wn...'मन्नह जिणाण आणं' स्वाध्यायः
केचनोत्तानमतयः सम्यक्-श्रीजिनागमाज्ञातस्वरूपा एकश एकत्र कदापि निर्विकारतया वार्तालाप-संमुखमात्रावलोकन-स्वल्पतरतमपरिचयकरणतत्परेष्वपि साध्वादिषु ब्रह्मस्थत्वेऽप्यसदोषारोपणेन वन्दन-पूजन-बहुमान-दानादौ न प्रवर्त्तन्ते, न ते सम्यग्धर्मावबोधिनः ।
ये तु सम्यक्तया कथञ्चित्कुतश्चित् जानन्तो न बहुमानिनः स्युः, तेऽपि स्वमनसैव ज्ञात्वा तिष्ठन्ति । न तु परप्रकाशने दोषोद्भावनादिविधौ प्रयतन्ते । यदुक्तमुपदेशमालायाम् -
"जइ ता जणसंववहार-वज्जियमकज्जमायरइ अन्नो । जो तं पुणो विकंथइ, परस्स वसणेण सो दुहिओ ।। सुटु वि उज्जममाणं, पंचेव करेंति रित्तयं समणं ।
अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ।।" [उपदेशमाला-७०, ७१] ते एव स्तुत्याः, ते एव वन्द्याः, ते एव वर्ष्याः, ते एव प्रशस्या ये एनं व्रतं मनोवचःकायशुद्धया धीराः सन्तः प्रतिपालयन्ति । यदुक्तमुपदेशमालायाम् ।
"ते धन्ना ते साहू, तेसिं नमो जे अकज्जपडिविरया । धीरा वयमसिधारं, चरंति जह थूलभद्दमुणी ।। विसयाऽसिपंजरमिव, लोए असिपंजरम्मि तिक्खम्मि ।
सीहा व पंजरगया, वसंति तवपंजरे साहू ।।" [उपदेशमाला-५८, ५९] इदमेव व्रतं न मत्सरेण, नासूयया, न मदेन, न लज्जया, न गुणाभिमानेन न बाह्याडम्बरोद्भावनया च न स्वगुरुवचोऽवहीलनया वा भृशं दृढं प्रतिज्ञेनाऽपि प्रतिपालयितुं शक्यम् । यतः -
17. यदि तावज्जनसंव्यवहारवर्जितमकार्यमाचरत्यन्यः । यस्तद् पुनः विकत्थते परस्य व्यसनेनासौ दुःखितः ।। 18. सुष्ठ्वप्युद्यच्छन्तं पञ्चैव कुर्वन्ति रिक्तकं श्रमणम् । आत्मस्तुतिः परनिन्दा जिह्वा उपस्था कषायाश्च ।। 19. ते धन्यास्ते साधवस्तेभ्यो नमो ये अकार्यप्रतिविरताः । धीरा व्रतमसिधारं चरन्ति यथा स्थूलभद्रमुनिः ।। 20. विषया असिपञ्जरमिव लोके असिपञ्जरे तीक्ष्णे । सिंहा इव पञ्जरगता वसन्ति तपपञ्जरे साधवः ।।