________________
[सीलं]
[१२-शीलम्] अथ शीलम् - "आणं ताण कुणंति जोडिय-करा, दासुव्व सव्वे सूरा ; मायंगा-हि-जलग्गि-सीह-पमुहा, वटुंति ताणं वसे । हुज्जा ताण कुओ वि नो परिभवो, सग्गाऽपवग्ग-सिरी;
ताणं पाणि-तलं उवेइ विमलं, सीलं न लुपंति जे ।।" अतः शीलपालने यतनीयमेव सर्वैः साध्वादिभिः । यतः -
"अक्खाण रसणी कम्माण मोहणी तह वयाण बंभवयं ।
गुत्तीण य मणगुत्ती चउरो दुक्खेण घिप्पंति ।।" [सुक्तमुक्तावली-९७/१३] तथा - ___ "वंसीसुहेण छिज्जइ कट्टिज्जइ दुक्करं कुडंगाओ ।
पव्वज्जा सुहगहिआ सीलभरो दुव्वहो होइ ।।" अस्मिन्नेके व्रते पालिते सति सर्वाण्यपराणि पालितान्येव । यदुक्तं श्रीआगमे - 'एकव्रतभङ्गे सर्वव्रतभङ्गः' इति निश्चयनयमतम्, व्यवहारतः पुनरेकव्रतभङ्गे तदेवैकं भग्नं प्रतिपत्तव्यम् । शेषाणां तु भङ्गः क्रमेण प्रायश्चित्तप्रतिपत्त्या नानुसन्धत्ते इति । अन्ये पुनराहुश्चतुर्थमहाव्रतप्रतिसेवने तत्कालमेव सकलचारित्रभङ्गः, शेषेषु पुनर्महाव्रतेषु अभीक्ष्णं प्रतिसेवनया महत्यतिचरणे वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो यदि प्रायश्चितप्रतिपत्या नो क्षालयति । उपदेशमालायामपि - १. 'लंपंति यो' हस्त । २. 'वेअणी' हस्त० । ३. 'क्रमेणय' हस्त । 1. आज्ञां तेषां कुर्वन्ति योजितकरा दासा इव सर्वे सुराः, मातङ्गाहि-जलाग्नि-सिंहप्रमुखाः वर्तन्ते तेषां वशे ।
भवेत्तेषां कुतोऽपि नो परिभवः स्वर्गापवर्गश्रीः, तेषां पाणितलमुपैति विमलं शीलं न लुम्पन्ति ये ।। 2. अक्षाणां रसना कर्मणां मोहस्तथा व्रतानां ब्रह्मव्रतम् । गुप्तीनां च मनोगुप्तिश्चतस्रो दुःखेन गृह्यन्ति ।। 3. वंशः सुखेन छिद्यते कृष्यते दुष्करं कुडङ्गः । प्रव्रज्या सुखगृहिता शीलभारो दुर्वहो भवति ।।