SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १७८ mmmmmmmmmmm wwar 'मन्नह जिणाण आणं' स्वाध्यायः प्रिये ! पानीयं पिब ।' सा कुब्जं कुरूपं वीक्ष्य 'परपुरुष' इति मनसि विचिन्त्य तत्संमुखं विलोकयत्यपि न । तत उत्थाय जनितं भर्तारं गवेषयति । स्वप्रियं क्वाप्यवीक्ष्य गता प्रियमेलकतीर्थे तथैव तपस्तपति । तिस्रोऽपि मीलितनयना मौनव्रतधारिण्यस्तिष्ठन्ति। विकृतिपरिवर्जितं धार्मिकजनोपनीतमाहारं भुञ्जते । राजाऽपि कुतूहलेन तत्रागत्य विलोकयति । पटह वादयति- 'य एता स्त्रियो वादयति, तस्य स्वसुतां कुसुमवतीं ददामि ।' ततः कुब्जकरूपधारी कुमारः पटहं स्पृशति, अहं वादयिष्यामीत्युक्त्वा। ततः कोरकपत्राणि वेष्टकेनाच्छाद्य तत्रागच्छति । राजसमक्षं वस्त्रमुत्सार्य कोरकपत्राणि वाचयति, ततः कथयति - 'यो द्विजातो भवति स एव एतान्यक्षराणि पश्यति वाचयति च। अहो ! भव्यान्यक्षराणी'ति प्रशंसति । कुब्जको वाचयित्वा व्याख्यानयति । यथा- 'सिंहलद्वीपे सिंहलसिंहो धनवतीयुक्तो प्रवहणे भग्ने जलधौ पपात । अग्रतः कल्ये कथयिष्ये ।' इत्युक्त्वा पुस्तकं वेष्टयति। ततो धनवती स्वचरित्रं श्रुत्वा विस्मयं प्राप्ताऽग्रतः किं जातमिति पृच्छति, सादरतया पृष्टे पुनः कथयति। ‘फलकेन समुद्रमुत्तीर्य रत्नवतीं सर्पदृष्टां सज्जां विधाय परिणीता च समुद्रमध्ये रुद्रदत्तमन्त्रिणा प्रक्षिप्तः।' इत्युक्त्वा तत्कालं पुनरुत्तिष्ठति, ततो विस्मिता रत्नवती पृच्छति, 'भो कुब्जक! नैमित्तिक ! अग्रतः किं जातमिति । ततो निर्बन्धे पुनः कथयति । 'केनापि देवादिना तापसाश्रमे मुक्तः। तत्र रूपवतीं तापसकन्यकां परिणीय कन्थाखट्वायुतोऽत्र प्राप्तः। पानीयार्थं कुपे गतः, सर्पण दृष्टः' इत्युक्त्वोत्तिष्ठति । ततो रूपवती पृच्छति । स च सर्वथा न कथयति । पुस्तकं वेष्टयित्वा राज्ञः समीपे कुसुमवतीं याचते । राजापि प्रतिपन्नत्वेन ददाति, हस्तमोचने वामनेन याचिते शालकः प्राह - 'कुर्वन्तं सर्प याहि ।' तेनोक्तं 'सर्प एव समागच्छतु ।' कुमारो दष्टः, पपात भूमौ, ताश्चिन्तयति, 'यद्येष मरिष्यति तदा कः प्रियतमशुद्धिं कथयिष्यति।' ततो दुःखेन ताः स्वहृदयं क्षुरिकया यावद्विदारयन्ति, तावता कुमारो दिव्यरूपधारी स्वरूपावस्थः सञ्जातः । नागः प्रत्यक्षीभूय कुमारपूर्वभवं ब्रूते । श्रूयतां सावधानीभूय, ततः सर्वेऽपि शृण्वन्ति सराजादयः । ___ धनपुरे धनञ्जयः श्रेष्ठी, तस्य धनवती भार्या, धनदेव-धनदत्तौ तत्सुतौ, एकदा शर्करादुग्धं मुनीन् विहारयति। धनदेवः सोऽहं मृत्वा देवो जातः । धनदत्तो यदा इक्षुरसयुतं घटं मुनिभ्यो दत्ते, वारत्रयं भावखण्डनात् स मृत्वा कुमारस्त्वं जातः । तद्दानप्रभावेन भार्याचतुष्कप्राप्तिः । भावखण्डनात् त्रयेण वियोगः। जलधिपतितो मयैवोत्पाट्य तापसाश्रमे मुक्तस्त्वं मयैव सर्परूपेण वामनीकृतः । यतस्तव शत्रुमन्त्री वर्तते । अत्र मयैव त्वं कुरूपश्च स्वरूपभृदपि । इत्युक्त्वा देवो जगाम । कुमारस्य जातिस्मरणम्, मन्त्री देशान्निष्कासितः । भार्याचतुष्केणोपलक्षितः सस्नेहम् । ततो भार्याचतुष्कयुतो गगनमार्गेण स खट्वायामारुह्य सिंहलद्वीपे गतः । पित्रा राज्यप्रदानं कृतम्, कन्थाप्रभावेण विश्वमदरिद्रमकार्षीत् । जैनधर्ममाराध्य षष्टदेवलोके गतः । ।। इति पात्रदानोपरि धनदेव-धनमित्रयोः सम्बन्धः ।। [इइ दाणं]
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy