SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ दाणं mmmmmm mmmmmmm १७७ यावद् भर्ता विलप्स्यतीति तावता मया मौनव्रतं पालनीयं इत्यभिग्रहं च गृह्णाति । इतश्च कुमारोऽपि प्राप्तः फलकखण्डः समुद्रमुत्तीर्य रत्नपुरं प्राप्तः । तत्र च रत्नप्रभराज्ञो रत्नसुन्दरी प्रिया तयोः पुत्री रत्नकुमारी सर्पण एकदा दष्टा । मान्त्रिकैर्मुक्ता, कुमारेण पटहस्पर्शनापूर्वं सा सज्जीकृता परिणीता च। ततः कुमारो धनवतीवियोगेन भूमौ शेते, ब्रह्मव्रतं च पालयति । सा लज्जातो वक्तुं न शक्नोति । परमेकदा पृष्टं कारणम्, स च सपत्नी भयेन समयोचितमुत्तरं दत्तः । देवि ! ममैवं प्रतिज्ञा - “देसावलोअणत्थं तिन्निग्गंतस्स मह पइन्ना । बंभं भूमीसयणं, जा निअजणए न पिच्छामि ।। रत्नवत्योक्तम्- ‘नाथ ! त्वं धन्योऽसि ! यदीयती भक्तिः पित्रोरुपरि ।' ततो राज्ञाऽपि कुमारः पृष्टः सन् नृपस्य देशकुलादिकं सम्यक् कथयति । ततो राजा रत्नवतीयुतं कुमारं बहुवस्त्राभरणरत्नादिभिः सत्कृत्य सिंहलद्वीपं प्रति विसर्जयति । सज्जीकृतं यानपात्रम् । रूढस्तस्मिन् सप्रियः कुमारः, राज्ञा च स्वमन्त्री रुद्रदत्ताभिधानः संप्रेषणार्थं सार्थे प्रेषितः । एकदा मार्गे दृष्टा स्नुषा तेन मन्त्रिणा । ततस्तस्यां लुब्धेन कुमारो जलधौ यानपात्रात् पातितः । ततो रत्नवती विलापान् करोति । तदा मन्त्री भणति, भद्रे! ऽहं सदापि दासः । भव मम भार्या, तया चिन्तितमेष दुरात्मा मम शीलभङ्गं करिष्यति । यतः - “न पश्यति हि जात्यन्धः, कामान्धो नैव पश्यति । न पश्यति मदोन्मत्तोऽप्यर्थी दोषं न पश्यति ।।" ततः किमप्युत्तरं दत्त्वा शीलं रक्षामीति विचिन्त्य सा वदति - 'भो मन्त्रिन् ! तीरे गत्वा एतन्मृतकार्यकरणानन्तरं तद्वचः करिष्ये ।' जलधौ गच्छत्प्रतिकूलवातेन प्रवहणं भग्नम् । लब्धफलका रत्नवती कुसुमपुरे प्राप्ता सापि तथैव तपस्तपति । मन्त्र्यपि प्राप्तफलकः कुसुमपुरे राज्ञो मन्त्री जातः । कुमारोऽपि जलधौ पतन् केनापि मन्त्रादिनोत्पाद्य तापसाश्रमे मुक्तः । कुलपतिरपि कुमारशरीरे राजलक्षणानि वीक्ष्य स्वपुत्री रूपवतीं ददाति । जातं पाणिग्रहणम्, हस्तमोचने दत्तैका कन्था प्रतिदिनटङ्ककपञ्चशतदात्री एका च खट्वा आकाशगामिनी । कुलपतिं नत्वा चरितः सप्रियः कुमारः खट्वायां धनवती मनसि कृत्वा, चलिता खट्वा प्राप्ता चाकाशमार्गेण कुसुमपुरोद्याने । रूपवत्यास्तृषा लग्ना, कुमारः प्रियां कन्थां खट्वां च मुक्त्वा पानीयार्थं निकटावटे गतः । तत्र कूपे 'भो कुमार ! मामस्मादन्धकूपात्कर्षय,' इति मनुष्यभाषया ब्रुवाणः सर्पो दृष्टः । स च कुमारेणोत्तरीयं मुक्त्वा कर्षितः । तत्र तावता सर्पण हस्ते दष्टः कुमारः कुब्जश्च बभूव । कुमारेणोक्तम्-'भो सर्प ! त्वया भव्यः प्रत्युपकारः कृतः स्वजातेः सदृशः ।' तावता सर्प आह - 'भो कुमार ! तव प्रत्युपकारं करिष्यामि, सङ्कटे स्मरणीयोऽहम्, । इत्युक्त्वा तिरोदधे सर्पः । कुमारः किमिति विस्मितमानसः पानीयं लात्वा भणति, 18. देशावलोकनार्थं निर्गतस्य मम प्रतिज्ञा । ब्रह्म भूमीशयनं यावत् निजजनकं न पश्यामि ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy