SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ दाणं ४५ तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो देव-गुरुवञ्चकाः कूटकपटमायाविधायिनश्च दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञा कर्तुं न युज्यते, एवं स्त्रीणामपि । यद्यपि कासाञ्चिद् दोषबहुलत्वमुपलभ्यते तथापि कासाञ्चिद् गुणबहुलत्वमप्यस्ति । तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते मुनिभिरपि स्तूयन्ते । लौकिका अप्याहुः - " निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्भं, जगतामपि यो गुरुर्भवति ।। [योगशास्त्र-३। ११९ वृत्ति] काश्चन स्वशीलप्रभावादग्निं जलमिव, विषधरं रज्जुमिव, सरितः स्थलमिव, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्घ चतुर्थमङ्गं गृहमेघिस्त्रियोऽपि । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु पुनः पुनर्बहुमतचारित्राः, प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रिभवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव स्वपुत्रीणामिव वात्सल्यं विधेयम् । १७३ श्राद्धास्तु प्रतिदिनं दानगुणाढ्या एव प्रोक्ताः श्रीउपदेशमालायां भोजनाधिकारे प्रत्यहं क्रियमाणेऽपि । यदुक्तम् - ४३. “पढमं जईण दाऊण, अप्पणा पणमिऊण पारेइ । असईइ सुविहिआणं, भुंजइ य कयदिसालोओ ।। साहूण कप्पणिज्जं, जं नवि दिन्नं कहिं चि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजति ।। '०ञ्चकाश्च दृश्यन्ते' योगशास्त्र - धर्मसङ्ग्रहवृत्त्योः । ४४. 'अवज्ञा न युक्तिमती' हस्त० । ४५. ' एवं... गुणबहुलत्वमप्यस्ति' हस्त० नास्ति । ४६. 'गरिमयोग्यतया' हस्त० । ४७. 'गर्व' हस्त० । ४८. 'चतुर्वर्णे.... स्त्रियोऽपि ।' हस्त० नास्ति । ४९. 'प्रबलमिथ्यात्वेर०' हस्त० । 7. प्रथमं यतिभ्यो दत्त्वा आत्मना प्रणम्य पारयति । अभावे सुविहितानां भुङ्क्ते च कृतदिशालोकः ।। 8. साधूनां कल्पनीयं यन्नापि दत्तं कस्मिंश्चित् कञ्चित् तस्मिन् । धीरा यथोक्तकारिणः सुश्रावकास्तन्न भुञ्जते ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy