________________
१७० woman
womamar 'मन्नह जिणाण आणं' स्वाध्यायः
विषसमुच्छेदनमहामन्त्रायमाणो धर्माधर्म-कृत्याकृत्य-भक्ष्याभक्ष्य-पेयापेय-गम्यागम्यसारासारादिविवेचनहेतुः सन्तमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । यदवोचाम स्तुतिषु -
“यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमाप्तभावम् ।
कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ।।" [अ. द्वा. २१] जिनागमबहुमानिना च देव-गुरु-धर्मादयोऽपि बहुमता भवन्ति । किञ्च, केवलज्ञानादपि जिनागम एव प्रामाण्येनाऽतिरिच्यते । यदाहुः -
"ओहो सुओवउत्तो सुयणाणी जइ हु गिण्हइ असुद्धं ।
तं केवली वि भुंजइ अपमाणं सुअं भवे इहरा ।।" [पिण्डनियुक्ति-५२४] एकमपि च जिनागमवचनं भविनां भवविनाशहेतुः । यदाहुः - "एकमपि च जिनवचनाद्यस्मानिर्वाहक पदं भवति ।
श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ।।" त.का. - २७/ जिनवचनं च दुःषमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयं च । यतः -
"न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ।।"
[योगशास्त्र-३/११९ वृत्ति जिनागमपाठकानां भक्तितः सन्माननं च । यतः -
२१. च्छेदनमन्त्रा०' हस्त० । २२. 'जिनशासनाय' धर्मसङ्ग्रह ५९ वृत्तौ । २३. '०बहुमानेन' हस्त० । २४. 'बहुमताः स्युः'
हस्त० । २५. 'जिनवचनं भवः' हस्त० । २६. '०बहुमान्यता तल्लेखनं...अभ्यर्चनं च' हस्त० । २७. भक्तिपूर्वकं'
योगशास्त्रवृत्तौ । २८. 'सन्मानं' हस्त० । 5. ओघः श्रुतोपयुक्तः श्रुतज्ञानी यदि हु गृह्णात्यशुद्धम् । तत् केवल्यपि भुङ्क्ते अप्रमाणं श्रुतं भवेदितरथा ।।