________________
दाणं mmm
mmmmmmm १६९ विशालशालाबलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिका-ऽगरुप्रभृतिधूपसमुच्छलद्धूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्य-नान्दीनिनादनादितरोदसीकस्य देवाङ्गलूहनप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य उत्पतन्निपतद्गायन्नृत्यद्वल्गत्सिंहादिनादितवत्सुरसमूहमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्तीनिबद्धकिङ्किणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुर-किन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तरतालारासक-हल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्याऽभिनीयमाननाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्म-दीक्षा-ज्ञान-निर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम्; असति तु विभवे तृणकुट्यादिरूपस्याऽपि । यतः -
“यस्तृणमयीमपि कुटी कुर्याद् दद्यात्तथैकपुष्पमपि ।
भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? ।।" "किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् ।
ये कारयन्ति शुभमतिविधायिनस्ते महाधन्याः ।।" [योगशास्त्र-३/११९ वृत्ति राजादेस्तु विधापयितुः प्रचुरतरभाण्डागार-ग्राम-नगर-मण्डल-गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्, तथा जीर्णशीर्णानां चैत्यानां समारचनम्, नष्टभ्रष्टानां समुद्धरणं चेति ।
अथ जिनागमक्षेत्रे स्वधनवपनं यथा-जिनागमो हि कुशास्त्रजनितकुसंस्कार
११. बलानक' हस्तः । १२. नृत्यकाल.' हस्त० । १३. 'देवाङ्गप्रभृति०' योगशास्त्रे । १४. कृतस्य गायन्' हस्तः ।
१५. 'सिंहादितवत्सुरसमूहानुमोदन.' हस्त० । १६. 'तुम्बुरमहिम्नो' हस्त० । १७. 'मण्डलेन तु यन्नृत्तं स्त्रीणां हल्लीसकं हि तत।' इति अभिधानचिन्तामणौ । १८. 'पुनरुचित.' हस्तः । १९. 'जिनभवने' हस्तः । २०. 'जिनागमे हस्तः ।