SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १६८ एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते ।। यः सद् बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दुश्चरं स समाचरेत् ।। सप्तक्षेत्रीयम् - तथा “सन्मृत्तिका - ऽमलशिलातल-रूप्य - दारु-; सौवर्ण-रत्न- मणि-चन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपम्; ते प्राप्नुवन्ति नृसुरेषु महासुखानि ।। " - 'मन्नह जिणाण आणं' स्वाध्यायः [योगशास्त्र-३/११९-१२० ] १० [ योगशास्त्र- ३ / ११९ वृत्ति ] “पासाईअ पडिमा, लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह निज्जरमो विआणाहि ।। " [ योगशास्त्र - ३ / ११९ वृत्ति ] तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम्, अष्टप्रकारपूजाभिरर्चनम्, यात्राविधानम्, विशिष्टाभरणभूषणम्, विचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् । ६ जिनभवनक्षेत्रे स्वधनवपनं यथा - शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानतिसन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्वकं जिनभवनस्य विधापनम् । सति विभवे भरतादिवद् रत्नशिलाभिर्बद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य ६. 'अष्टाभिश्च प्रकारैरभ्यर्चनम्', योगशास्त्रे । ७. '०भूषणानि' हस्त० । ८. 'जिनभवनक्षेत्रे स्वधनवपनं यथा ' हस्त० नास्ति ।. ९. ‘ग्रहणे' हस्त॰ । १०. ‘षड्जीवनिकाययतनया पूर्वम्' हस्त० । 4. प्रासादिका प्रतिमा लक्षणयुक्ता समस्तालङ्करणा । यथा प्रह्लादयति मनस्तथा निर्जरां विजानीहि ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy