________________
[दाणं
[११-दानम्] अथ दानादिधर्मचतुष्ट्यी श्रीवीरमुखचतुष्ट्यप्रदर्शिता प्ररूप्यते । यथा गृहिणां चतुर्धाऽपि धर्मः समर्पितः । आत्मना दीक्षाप्रतिपत्त्यवसरे वर्षम् -
"वरवरिआ घोसिज्जइ किमिच्छअं दिज्जए बहुविहीअं ।
सुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे ।।" [आवश्यकनियुक्ति-२१९] प्रहरवेलायाम् -
"एगा हिरण्णकोडी अटेव अणूणगा सयसहस्सा ।
सूरोदयमाईअं दिज्जइ जा पायरासाओ ।।" [आवश्यकनियुक्ति-२१७] वर्षेण च - "तिण्णेव य कोडिसया अट्ठासीइं च हुंति कोडीओ ।
असिइं च सयसहस्सा एअं संवत्सरे दिण्णं ।।" [आवश्यकनियुक्ति-२२०] इत्येवं विधिना दानं दत्त्वा सर्वविरतिप्रतिपत्तिं विधाय केवलोत्पत्तेरनन्तरं प्रथमसमवसृतौ चतुःप्रकारमपि धर्मं प्ररूप्यात्मना त्रिप्रकारमेवादृत्य गृही दानेन शुध्यतीति हेतोश्चतुःप्रकारोऽपि श्रीजिनधर्मो गृहस्थानामेव प्रदत्तः । गृहस्थैः स त्वाराध्य एव चतुःप्रकारोऽपि तथैव श्रीजिनाज्ञाप्रतिपालनसम्भवात् । केन किमपि स्वमतिकल्पितं किञ्चित्कारणं विभाव्य दाननिषेधः श्राद्धानां विधीयमानोऽस्ति । स तु श्रीजिनागमादियुक्त्याज्ञाविराधकतयैव ज्ञेयः । यतः श्राद्धाः श्रीहेम[चन्द्र]सूरिभिर्योगशास्त्रे दातार एव प्ररूपिताः । 1. वरवरिका घोष्यते किमीप्सितं दीयते बहुविधिकम् । सुरासुर-देव-दानव-नरेन्द्रमहितानां निष्क्रमणे ।। 2. एका हिरण्यकोट्योऽष्टैवान्युनकाः शतसहस्राः । सूर्योदयादारभ्यो दीयते यावत् पातराशः ।। 3. त्रिण्येव च कोटिशतानि, अष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि एतत् संवत्सरे दत्तम् ।।