________________
१६६
'मन्नह जिणाण आणं' स्वाध्यायः
अङ्कानां वामतो गतिः । सप्तविंशतिकोडिशत - सप्तसप्ततिकोटि- सप्तसप्ततिलक्ष- सप्तसप्ततिसहस्रसप्तशत- सप्तसप्तति-नवभागीकृतपल्यस्य सप्तमभागः । [२७,७७,७७,७७,७७७ ७/३ एतावत्पल्यायुर्बन्ध एकस्मिन् पौषधे ] इत्यागमोक्तधर्मध्यानं सर्वोत्कृष्टं प्रपेदे जिनचन्द्रेण । अत्रान्तरे सौधर्मेन्द्रेण प्रशंसा कृ ता । धन्योऽसौ श्राद्धः । य एवंविधशुद्धधर्म्मध्यानाद्देवैरपि चालयितुं न शक्यते । तदाकार्ण्य रत्नचूडदेवो भरते आगत्य श्राद्धपरीक्षां चकार । तत्र सुदर्शनाभगिनीरूपं कृत्वा पौषधशालामागत्य सूर्योदयं निर्माय तमुवाच । भ्रातस्तव रसवती षट्रसमिश्रा निष्पन्नास्ति, शीतली भवति । पौषधं पारय । श्रावकः शृणोत्यपि न शुभध्यानलीनमनाः, ततो दासीरूपेणाह - हे प्राणनाथ ! एतद्विलेपनं मम स्वामिन्या सुन्दर्या प्रेषितमस्तीत्युक्त्वा तेन विलेपयति सुकुमालपाणिपद्मेन सर्वाङ्गम्, तथापि न क्षुब्धः । ततो मित्ररूपेण ताम्बूलं दत्ते । ततो भार्यारूपेण शीलभङ्गाय यतते । ततः प्रतिकूलोपसर्गेः क्षोभनं तथापि न क्षुब्धः । ततः प्रत्यक्षीभूय तुष्टो नृत्यं कृत्वा जिनचन्द्रगृहे रत्नवृष्टिं विधाय देवो जगाम । श्रावकः प्रातः पौषधं पारयित्वाऽर्हत्पूजासुपात्रदानपूर्वं भोजनं चकार । ततो रत्नानि विभज्य स्वजनेभ्यो ददौ । क्रमेण जिनभवनबिम्बादीनि धर्मकृत्यानि कृत्वा पुत्रे भारमारोप्य तपस्यां जग्राह । केवलज्ञानान्मोक्षं प्राप्तः ।।
।। इति पौषधे जिनचन्द्रसम्बन्धः ।। [इइ पव्वेसु पोसहवयं]