SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पव्वेसु पोसहवयं mmmmmmmmm m१६१ "आहारदेहसक्कारबंभवावारपोसहो यऽन्नं । देसे सव्वे अ इमं चरमे सामाईअं नियमा ।।" [पञ्चाशक-२९] देशे आहारादीनां देशविषये सर्वस्मिन्निरवशेषे आहारादौ च इदं पौषधव्रतं स्यादिति सम्बन्धः । अन्यद्देशावकाशिकादपरं तृतीयमित्यर्थः । तत्र पौषधे चरमे भेदे सर्वतोऽव्यापाराख्ये कृते सति सामायिक नियमादवश्यभावेन कर्त्तव्यं भवतीति गम्यम्, अन्यथा सामायिकफललाभाभावः स्यात् । इह च भावार्थो वृद्धोक्तो य आहारपौषधो हि द्विविधो देश-सर्वभेदात् । तत्र देशे विवक्षित-विकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् । शरीरसत्कारपौषधस्तु स्नानोद्वर्त्तनवर्णक-विलेपन-पुष्पगन्धविशिष्ट-वस्त्राभरणपरित्यागः । सोऽपि देश-सर्वभेदाद् द्विधा । तत्र देशे कस्यापि शरीरसत्कारणस्याकरणम्, सर्वतस्तु सर्वस्याप्यकरणं तस्य । ब्रह्मचर्यपौषधोऽपि देशतः सर्वतश्च । तत्र देशे दिवैव रात्रावेव सकृदेव द्विरेव वाऽब्रह्मासेवनम्, सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम् । अव्यापारपौषधोऽपि देशतः सर्वतश्च । तत्र देशत एकतरस्यापि व्यापारस्याकरणम्, सर्वतस्तु सर्वेषामपि [कृषि-सेवा-वाणिज्य-पशुपाल्यगृहकर्मादीनां] व्यापाराणामकरणम् । तत्र चाव्यापारविषये यो देशतः पौषधं करोति स सामायिकं करोति वा न वा । यस्तु सर्वतः पौषधं करोति स नियमात्सामायिकं करोति, यदि न करोति तदा तत्फलेन वञ्च्यते । इह च यद्याहार-शरीरसत्कार-ब्रह्मचर्यपौषधवदव्यापारपौषधमप्यन्यत्रानाभोगेनेत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते, तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात् पौषधप्रत्याख्यानस्य, सूक्ष्मत्वाच्च सामायिकस्येति । तथा पौषधवताऽपि सावधव्यापारा न कार्या एव । सामायिकमकुवँस्तल्लाभाद् भ्रश्यतीति । यदि पुनः सामाचारी११. ....राचाम्लस्य' धर्मसङ्ग्रह वृत्तौ । १२. 'स्नानो द्वन....' हस्त० । १३. 'वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम्' योगशास्त्र धर्मसङ्ग्रहवृत्तौ । १४. 'ब्रह्मच' हस्तः । 7. आहारदेहसत्कारब्रह्मव्यापारपौषधः पुनरन्यद् । देशे सर्वस्मिन् चेदं चरिमे सामायिक नियमात् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy