________________
१६०
दोषाश्च -
44
'आरभडा संमद्दा मोसलि पप्फोडणा वक्खित्ता । णच्चाविअति पडिलेहणाइ वज्जिज्ज छदोसा ।।
~~~ 'मन्नह जिणाण आणं' स्वाध्यायः
वितथाचरणेऽन्यान्यग्रहणे वाऽऽरभडा - १ वस्त्रान्तः कोणयोर्वा ग्रहणे प्रतिलिख्य तत्रैव मोचने संमर्दा-२, उर्ध्वाधस्तिर्यग् घट्टने मुशली-३, गाढताडने रजोऽवगुण्ठितस्येव [वस्त्रस्य] प्रस्फोटना४, सूत्रादिषु व्यग्रता [विक्षिप्ता ] -५, वस्त्रात्मनो नर्त्तनेन नर्त्तितः [ तन्नर्त्तितः] - ६ इत्यादि-[प्रतिलेखनायां वर्जितव्याः षट्दोषाः ।]”
श्रीजिनोक्तं सूत्रं मुखपोतिकां विना कथं सत्प्राप्यमानमस्ति ? तदसत्प्रापने चाज्ञाभङ्गादयो दोषाः स्युः । आज्ञाभङ्गादौ चाशातना, आशातनया च मिथ्यात्वम्।
यतः
6
'आसायण मिच्छत्तं, आसायणवज्जणा य सम्मत्तं ।
आसायणानिमित्तं, कुव्वइ दीहं च संसारं ।। "
इत्यादि प्रसज्यमानं केन निवारयितुं शक्यते ।
"
पर्वस्वेव पौषधानुष्ठानमन्यथा नेत्येकान्तो नावगम्यः । यतो विपाकश्रुताङ्गद्वितीयश्रुतस्कन्धे सुबाहुप्रमुखैर्दशभिः श्राद्धैः श्रीज्ञाताधर्माङ्गप्रथमाध्ययनज्ञाते श्री अभयकुमारेण च दर्भसंस्तारादिविधिपूर्व च दिनत्रयम्, वसुदेवहिण्डी विजयनृपेण दिनसप्तकं पौषधः कृतः । स च विधिरेवान्यथा तत्तदिष्टसिद्धिः कथं तेषां जातेति ज्ञेयं पर्वान्यदिनेष्वपि पौषधग्रहणम् । पौषधस्वरूपं चेदम् -
66
[उपदेशमाला-४०९]
१०. 'वस्त्र' हस्त० नास्ति तथा ओघनिर्युक्तौ संमर्दस्य अयमर्थः 'उपधिकायां उपविश्य यत्प्रत्युपेक्षणां करोति सा वा संमर्दोच्यते' इति ।
6. आशातना मिथ्यात्वमाशातनावर्जना च सम्यक्त्वम् । आशातनानिमित्तं करोति दीर्घं च संसारम् ।।