________________
पव्वेसु पोसहवयं
अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चैकदिवसमपि 'न हावए 'त्ति हापयति [हानिं प्राप्नोति ] ।' इति श्रीउत्तराध्ययनवृत्तौ [पञ्चम-]अध्ययने ।
५
पौषधेऽपि मुखवस्त्रिका नियमेन ग्राह्यतयैवोक्ता । यतः
१५९
घैरे पोसहसालाए ठावित्तु ठेवणायरिअं ।
मुहपत्तिअं पमज्जतो सीहो गिण्हइ पोसहं ।। [ व्यवहारचूलिका-] कैश्चिद् श्राद्धादीनां मुखवस्त्रिकां विनैव सामायिकपौषधाद्यनुष्ठानमनु]ज्ञाप्यमान[म]स्ति । ते पृष्टव्या यदि मुखवस्त्रिकां विनैव सामायिकाद्यनुष्ठानं श्रीजिनेन्द्रैरनुज्ञातमभविष्यत् । नानुज्ञातं च क्वापि मुखपोतिकाया अभावत्वं श्राद्धानां साधूनां च सद्भावत्वं पृथक्तया । मुखवस्त्रिकाविधिर्दोषाश्च सर्वसाधारणतयैव दर्शिताः, न पृथक्भावेन साधूनां श्राद्धानां च नवप्रमार्जनारूपाः प्रस्फोटा: 'पक्खोडा' इति प्रसिद्धाः । इतरे त्वास्फोटा: 'अक्खोडा' इति प्रसिद्धाः । तथा
4
“पसरि अपयजाणु बहिं अंतोलग्गंतिगेग भुअ बाहिं ।
ईआवई अ पणगेणं सुद्धं पडिलेहणं कुज्जा ।।" [
]
वेदिका पञ्चप्रकारा [प्रज्ञप्ता । तद्यथा - उर्ध्ववेदिका, अधोवेदिका, तिर्यग्वेदिका, उभयतोवेदिका, एकतोवेदिका । तत्र ] जानुनोरुपरि हस्तौ कृत्वा प्रतिलेखयति यत्सा उर्ध्ववेदिका-१, जानुनोरधो हस्तौ कृत्वा प्रतिलेखयति यत्सा अधोवेदिका-२, सन्दंशकयोर्मध्यैः हस्तेन गृहित्वा यत्प्रतिलेखयति सा तिर्यग्वेदिका - ३, बाह्योरन्तरे द्वे जानुनी कृत्वा यत्प्रतिलेखयति सा उभयतोवेदिका-४, बाह्योरन्तरे एकं जानु कृत्वा यत्प्रतिलेखयति सा एकतोवेदिका - ५ ।
४. 'केवल...त्यर्थः ' इति हस्त० नास्ति । ५. 'हापयेत्' उत्तराध्ययनवृत्तौ । ६. 'ठवणारिअं' हस्तप्रतौ । ७. 'सन्दशर्योर्मध्येन हस्तौ कृत्वा' हस्त० । ८. 'दुहओवेदिका' हस्त० । ९. 'बाह्योरन्तरेकं' 'जानु' हस्त० ।
3. गृहे पौषधशालायां स्थापयिता स्थापनाचार्यम् । मुहपत्तिकं प्रमार्जतः सिंहः गृह्णति पौषधम् ।।
4. प्रसारितपदजानुबहिरन्तोऽलग्नं त्रिकं एकभुजाबहिः । इत्यादि च पञ्चकेन शुद्धं प्रतिलेखनं कुर्यात् ।।