________________
।। अथ द्वितीयगाथाव्याख्याने प्रबोधदीपिकायां द्वितीयः प्रस्तावः । अथ द्वितीया गाथा विक्रीयते
पव्वेसु पोसहवयं, दाणं सीलं तवो य भावो य । सज्झायनमुक्कारो, परोवयारो अ जयणा य ।। [पर्वसु पौषधव्रतं दानं शीलं तपश्च भावश्च । स्वाध्याय- नमस्कारौ परोपकारश्च यतना च ।।]
[पव्वेसु पोसहवयं] [१०-पौषधः]
व्याख्या - पर्वसु पौषधव्रते नियमेन यत्नो विधेय एव । यदुक्तम् -
।
“सव्वेसु कालपव्वेसु पसत्थ पोसणे अट्ठमि - चउद्दसीसुं नियमेण होइ' पोसहिओ ।। "
'अंगारिसामाइअंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ।। "
44
[श्राद्धप्रतिक्रमणसूत्रवृत्ति]
[ उत्तराध्ययन- ५ / २३]
अगारिणो गृहिणः सामायिकं सम्यक्त्व - श्रुत- देशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि 'सङ्घत्ति' सूत्रत्वात् श्रद्धारुचिरस्यादिति श्रद्धावान् स कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति सेवते, तथा पौषधं आहारपौषधादिकं 'दुहओ पक्खंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु' 'एगराइंति'
१. 'जिणमए तवो जोगो ।' श्राद्धप्रतिक्रमणसूत्रवृत्तौ । २. 'हविज्ज' श्राद्धप्रतिक्रमणसूत्रवृत्तौ । ३. 'पूर्णिमास्यादिषु' हस्तप्रतौ ।
1. सर्वेषु कालपर्वेषु प्रशस्तः पौषधो ज्ञातव्यः । अष्टमीचतुर्दशीषु नियमेन भवति पौषधवान् ।।
2. अगारिसामायिकाङ्गानि श्राद्धः कायेन स्पृशति । पौषधं द्वयोः पक्षयोः एकरात्रिं न हापयति ।