________________
६- छव्विह- आवस्सयंमि
।। अथ कपर्द्दियक्षपूर्वभवकथा ।।
सुराष्ट्रामण्डले मधुमत्यां नगर्यां कपर्द्दिनामा कोलिकः । आडि कुहाडि द्वे भार्ये तस्य, अभक्षापेयासक्तश्च कोलिक एकदा युगन्धराचार्यैर्बहिर्भूमौ गच्छद्भिर्भार्याकुटवचनैस्ताड्यमानो दृष्टः, तैर्भणितम्-अहो ! कोलिक ! आगम्यतां त्वयास्माकं पार्श्वे, तेन चिन्तितं किमपि याचयिष्यन्ति वस्त्रादिकमाचार्यैस्तस्यायुर्घटिकां द्वयमितं श्रुतेनालोक्य कथितम् - अहो कोलिक ! प्रत्याख्यानप्रमाणं कुरु, 'नमो अरिहंताणं' कथयित्वायं ग्रन्थिं च्छोटयित्वा स्वाहारं गृहीतव्यम्, तेन सर्वमङ्गीकृतम्, तदनन्तरं मासखण्डं गरत्वरव्याप्तं भक्षितम् । ततो मृतः । अणपन्नीपणपनीव्यन्तरमध्ये व्यन्तरोऽजनि । अवधिना विज्ञाय नमस्कारसहितो गंठसहीप्रभावः । अत्रान्तरे भार्यायां मृतं दृष्ट्वा राज्ञः कथितम् । महाराज ! पाखण्डिभिर्मारित आवयोर्भर्त्ता । आचार्याश्च तुरके क्षिप्ताः, तेन व्यन्तरेण शिलां विकुर्व्य भणितम्, यन्महाराज ! क्षम्यतामाचार्याः, अन्यथा तव नगरोपरि शिलां पातयिष्यामि । भयभीतेन राज्ञा क्षामिताः श्रीआचार्याः, संहरिता शिला । व्यन्तरेण लोकसमक्षं गाथा भणिता ।
I
69
“मंसासी मज्जरओ, इक्केणं चेव गंठिसहिएणं ।
सोऽहं तु तंतुवाओ, सुसाहुवाया सुरो जाओ ।। ”
१५५
[प्रत्याख्यानकुलकम्-१३]
इति भणित्वा प्रभूणामग्रे नाट्यं विरच्य मया किं कर्तव्यमादेशो दीयताम् । तैरुक्तम्- 'त्वया पाश्चात्यभवे बहूनि पापानि कृतानि तेषां शुद्धिहेतोः श्रीशत्रुञ्जये श्रीसङ्घ साहाय्यकारी व्यन्तरो भवे 'ति कथिते श्रीशत्रुञ्जये कपर्द्दिनामा यक्षो बभूव ।।
।। इति कपर्द्दियक्षपूर्वभव कथा ।।
आभ्यन्तरमपि
70
"पायच्छित्तं विणओ, वेआवच्चं तहेव सज्झाओ ।
झाणं उग्गो विअ, अब्भिंतरओ तवो होइ ।। " [ दशवैकालिकनिर्युक्ति - ४८] द्विधा तपसः षट् षट् प्रकाराः, प्रत्येकं ग्रन्थगौरवभन्न भाव्यमानाः सन्ति । एतेषां मध्ये एंकैके भाव्यमानेऽनेके दृष्टान्ता युक्तयश्च सम्भवन्ति । तथापि स्वाध्यायतपसः किञ्चित् विवरणं क्रियमाणमस्ति ।
-
१४.
'... भया न' हस्त० ।
69. मांसाशी मद्यरतः, एकेनैव गन्धिसहितेन । सोऽहं तु तन्तुवायः सुसाधुवाचा सुरो जातः ।।
70. प्रायश्चितं विनयो वैयावच्चं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि चाभ्यन्तरं तपो भवति ।।