________________
६-छब्बिह-आवस्सयंमि mmmmmmmmmmmm
१४९
५०
५१
करवालकरो भ्राम्यन् ददर्श पदपद्धतिम् । ततः पदानुसारेण गत्वा खड्गमवाहयत् ।।१९७।। खेचरं तु द्विधाचक्रे तमथ स्वैर्व्यसनँयत् । अचीकर पवित्रां मां साशङ्कोऽस्ति वा तद्वधात् ।।१९८ ।। एकदोपवनस्थस्य नवयौवनशालिनी । स्फारश्रृङ्गारसारङ्गी काऽपि स्त्री समुपागमत् ।।१९९।। दृष्ट्वातिशायिरूपः स तयोक्तं शृणु सुन्दर ! । वैताढ्ये दक्षिणश्रेण्यामशोकपुरपत्तने ।।२०० ।। खेचरेन्द्रो महासेनस्तस्य भार्या शशिप्रभा । सूनुर्मेघरथो नाम मेघमालाऽहमङ्गजा ।।२०१।। अन्यदा भूभुजास्माकं जनन्या सह मन्त्रितम् । को ममान्तरं राजा भविष्यत्यत्र पत्तने ।।२०२।। दध्यौ प्रज्ञप्तितो ज्ञातं सुनुर्मेघरथोऽधमः । दुहितुर्भाविना भर्ता दुर्नयान्मारयिष्यते ।।२०३।। अत्रापरोनृपो भावी ततोऽम्बा विषसाद मे । अन्यायिनोऽपि पुत्रस्य व्यथते हि विपत्प्रसूम् ।।२०४।। मद्भ्राताऽथ ममावेद्य कुशाग्रपुरमीयिवान् । भ्रातृस्नेहात्तमन्वागामत्र चाकर्णितं मया ।।२०५।। धम्मिलेन हतः खेटस्ततोऽहं रोषनिर्भरा । अशोकवनिकां प्राप्ता तत्र त्वं वीक्षितो मया ।।२०६।। गतो रोषोऽनुरागोऽभूत्तत्प्रसीदाधुना मम । अत्राणाया भव त्राणमित्युक्त्वांत्योः पपात सा ।।२०७।। ततः सा तेन गान्धर्वविवाहेन विवाहिता । तामप्यादाय निःशङ्को धम्मिलः स्वगृहेऽविशत् ।।२०८।। पत्न्या विमलसेनायाः संजातः सूनुरन्यदा । कृतपद्मरथाख्यः स कलाभिः सर्वहर्षदः ।।२०९।। अन्येधुरागमद्भरिशिष्यो धर्मरुचिर्गुरुः । राज्ञा पौरैर्धम्मिलेन प्रणतो धर्ममादिशत् ।।२१०।। नत्वाऽथ धम्मिलोऽप्राक्षी किंमया प्राग्भवेतम् । येनैवंसुखदुःखानि प्राप्तोऽहंगुरुरूचिवान् ।।२११।। जम्बूद्वीपाभिधे द्वीपे भरतक्षेत्रमध्यगे । भृगुकच्छे गृहपतिर्मिथ्यादृष्टिर्महाधनः ।।२१२ ।। सुनन्दा प्रेयसी तस्य सुनन्दाख्यः स्तनंधयः । साधिकाष्टसमोऽधीतः कुलोचितकलोऽभवत् ।।२१३।। तद्गृहेऽन्येाराजग्मुरिष्टाः प्राघुर्णिकास्तदा । तदर्थं प्रेषितः सूनुरेकेनातिथिना सह ।।२१४।। आनेतुं शौनिकागारान्मांसं तत्तत्र नाभवत् । वारितोऽपि सुनन्देनागात्कैवर्तालयेऽतिथिः ।।२१५ ।। गृहीतास्तेन जीवन्तः पाठीनाः पञ्च तत्र च । सुनन्दस्यार्पयित्वा तानूचिवाँस्त्वं व्रजन भव ।।२१६।। कायशुद्धिं विधायैमि प्रतीक्षेथाः पुरः पथि । सुनन्देनापि ते क्षिप्तास्तिमयः कृपया जले ।।२१७ ।। अथ प्राघूर्णकोऽभ्यागात् पृष्टं मत्स्याः क्व ? सोऽवदत् ।
क्षिप्ता नीरे व्यषीदत्स द्वावप्यथ गतौ गृहे।।२१८ ।। पृष्टं पित्रा किमानिन्ये स स्माहालम्भिनामिषम् । द्वितीयः स्माह पञ्चात्ताःजीवन्तस्तिमयो मया ।।२१९।।
४९. 'त्यविक्रां' हस्त० । ५०. मुद्रितचरित्रेऽयं श्लोको नास्ति । ५१. पितृभ्यामन्यदा ज्ञातं प्रज्ञप्त्या मेघरथः' मुद्रितचरित्रे ।