________________
१४८ xmmmmmmmmmmmmmmmmmmmmmmm
rememorrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
धम्मिलस्तत्पुरोऽप्याह कुशाग्रपुरपत्तने । जितशत्रूरभूद्राजा गणिका तस्य विश्रुता ।।१७५ ।। वसन्तसेना नाम्नाऽस्ति वसन्ततिलका सुता । सा ममातिप्रिया तस्या अतीवाहमपि प्रियः ।।१७६ ।। विद्युन्मत्यवदत्तस्याः कृत्वा सारामुपैम्यहम् । सोऽभ्यधाद्याहियाता सासारांकृत्वा समागता ।।१७७।। आख्याति धम्मिलस्याग्रे युवरूपमितः प्रिय ! । दर्शनीयं सशृङ्गारं कृत्वा तस्या गृहेऽगमम् ।।१७८ ।। दृष्टा वसन्ततिलका पत्युविरहतः कृशा । त्यक्तनिःशेषशृङ्गारा जरन्मलीमसांशुका ।।१७९।। कृतवेणिबन्धा ध्यायन्त्यस्ति त्वामेव केवलम् । पुरुषद्वेषिणी लीना मां नावलोकयत्यपि ।।१८० ।। ततः पुंरूपमुत्सृज्य भूत्वाऽहं निजरूपभाक् । ऊचेऽहं प्रेषिताऽस्यत्र धम्मिलेन महात्मना ।।१८१।। हले ! वसन्ततिलके ! सारां कर्तुमहं तव । तदाकर्ण्य प्रमोदेनोद्भिनरोमाञ्चकञ्चुका ।।१८२।। सहसोत्थाय सस्नेहंगाढमालिङ्ग्य सादरम् । अथापृच्छञ्चमां हर्षात्कुत्र ? मे प्राणवल्लभः ।।१८३।। उक्तंमयाऽस्ति चम्पायांततो मे त्वद्वियोगजम् । मुञ्चत्यश्रूणि भूयांसि दुःखं सर्वं न्यवेदयत् ।।१८४ ।। विद्युन्मत्यातदाख्यातं श्रुत्वाऽभूदुन्मनाः क्षणात् । साऽथ विज्ञार्यतैञ्चित्तमुचेतस्य प्रियङ्करम् ।।१८५ ।। किं कुशाग्रपुरे कान्त ! गन्तुकामोऽसि सोऽवदत् । यदि यूयं प्रसन्नाः स्थ ततस्तस्य तथैव हि ।।१८६ ।। मेलयित्वा प्रियाः सर्वा विमानं विदधे महत् । राज्ञो राजकुमारस्यानुज्ञयाऽशेषभूतियुक् ।।१८७।। सप्रियो धम्मिलस्तत्राधिरोप्य क्षणमात्रतः । कुशाग्रपत्तने नीतः किं दूरं व्योमचारिणाम् ।।१८८ ।। गृहे वसन्तसेनायाः प्राविशत्सपरिच्छदः । वसन्ततिलका दृष्टा तयाप्यालोकितः प्रियः ।।१८९।। मेघागमे मयूरीवाभूत् प्रमोदवशंवदा । अमित्रदमनेनैतत्सर्वं राज्ञा श्रुतं ततः ।।१९०।। तुष्टेन निजराज्यस्य त्रिभागोऽस्य व्यतीर्यत । कारितं तस्य सौधं च स तत्रास्ते स्म राजवत् ।।१९१।। सार्थवाहो धनवसुरप्यतुष्यत्तदागमात् । सोऽप्यानीयार्पयत् पुत्रीं तस्योद्योढां यशोमतीम् ।।१९२।। इहलोकार्थकृतषण्मासाचाम्लतपःफलात् । स सर्ववल्लभायुक्तो भुञ्जानोऽस्ति भृशं सुखम् ।।१९३।। अन्यदा धम्मिलं प्रीता वसन्ततिलकाभ्यधात् । ह्यस्त्वं वेषान्तरेणागाः सम्भोक्तुं नाथ ! चारुणा ।।१९४ ।। भवञ्चित्तविनोदार्थमीदृक्कान्ते ! मया कृतम् । इत्युक्त्वा दध्यवानेवं मम रूपेण कश्चन ।।१९५ ।।
खेचरः सञ्चरत्यत्र मत्कलत्राभिलाषुकः । स्वगेहं परितः क्षिप्तः सिन्दूरस्तं विवेद सः ।।१९६।। ४५. 'अथ प्रपृच्छ' हस्त० । ४६. 'तञ्चित्तं चलनोपक्रमं व्यधात् ।' मुद्रितधम्मिलचरित्रे, तथा श्लोक-१८६ नास्ति । ४७. श्लोक-१९३-१९९ स्थानेऽयं मुद्रितचरित्रे-'अन्यदान्तःपुरासन्नं चरन्तं खेचरं विटम् । हत्वा यावत्सशङ्कोऽस्ति दिव्यत्री
तावदागमत् ।। धम्मिलेन तु सा दृष्टा ।' ४८. 'मलतकत्रा...' हस्त० ।