________________
६-छब्बिह-आवस्सयंमि mmmmmmm
mmmmmmm१४७
विवादे भूभुजाऽप्येष निराक्रियत सागरः । दापिता धम्मिलस्यैव परिणिन्ये स तास्ततः ।।१५५ ।। चम्पेशेन समं सन्धिं कर्बटेशस्य चाकरोत् । सर्वकर्मीणबुद्धेः स्यात्कार्यं किमिह दुःशकम् ।।१५६।। ततस्तस्य चरित्रेण तन्मित्रं रविशेखरः । चम्पेशः कर्बटेशश्च पुरीलोकश्च रञ्जितः ।।१५७।। कर्बटेशेन तत्पार्श्वे प्रैषि पद्मावती सुता । अश्वापहारात्प्रभृतिं धम्मिलो वृत्तमात्मनः ।।१५८ ।। अत्रागमनपर्यन्तं स्वप्रियाणां न्यवेदयत् । अथ सत्क्रियमाणोऽस्थाद्राज्ञा तत्र सुखेन सः ।।१५९।। अन्यदा चन्द्रशालायां धम्मिलस्य निषेदुषः । व्योम्नाऽगाखेचरी विद्युदिव विद्युल्लताऽभिधा ।।१६० ।। उपालम्भं ददावार्यपुत्रेदं तव युज्यते ? । हतो विमन्तुर्मभ्राता सोऽवग्विज्ञाय नो हतः ।।१६१।। भवितव्यतया जातमेतद्दोषो ममात्र न । साऽथ स्माह भवद्वृत्तं तत्सर्वं कन्यया तया ।।१६२।। न्यवेद्यस्माभिरुक्ताऽथ तमिहानय सत्वरम् । तया तु रभसा श्वेता पताकोत्तम्भिता ततः ।।१६३ ।। अपक्रान्तो भवान्नाप्तः सर्वतः शोधितोऽपि हि । प्रेषिताहं ततस्ताभिः सर्वाभिस्त्वामवेक्षितुम् ।।१६४।। भ्रमन्ती ग्रामनगरारण्येषु प्राच्यपुण्यतः । त्वामदर्शमहं नाथ ! चिन्तामणिमिवाधुना ।।१६५ ।। तमापृच्छ्य ततो व्योम्ना गत्वा षोडश कन्यकाः । स्वभगिन्या सहानैषीज्झगित्येव तदन्तिकम् ।।१६६।। अष्टादशापि युगपद्धम्मिलः परिणीतवान् । ताभिः समं परं सौख्यं समस्त्यनुभवन् भृशम् ।।१६७।। विद्युन्मत्याऽन्यदाऽभाणि विमला किंतवोचितम् । पत्युः पादाहतिं कर्तुंपतिः स्त्रीणां हि देवता ।।१६८।। विमलाऽप्यवदत् स्मित्वा किं पत्युरपि साम्प्रतम् । सपत्न्या अभिधानेन पत्न्या आह्वाननं शुभम् ।।१६९।। सोचे प्रियजनाह्वानग्रहणं कुरुतात् प्रियः । त्वत्पादस्य पुनर्योग्यो दण्डोऽत्र प्रियताडनात् ।।१७० ।। विमलाऽथ हसित्वोचे पादोऽयं वोऽर्चनोचितः । नानेनाताडयिष्यं चेन्मत्प्रियो वः प्रियस्ततः ।।१७१।। अभविष्यत्कथं सर्वाः स्मित्वा तूष्णीमिव स्थिताः । परिहासनिवृत्तौ च विद्युन्मत्याह हे प्रिय ! ।।१७२।। का? सावसन्ततिलका धम्मिलः स्माहवल्लभे । बिभेमिकथयस्ताते रोषणोऽत्र घनोजनः ।।१७३।। स्मित्वोचे विमला नेतः किमेतदतिभीरूकः । मा भैषीरभयं तेऽस्तु सुस्थः कथय तत्कथाम् ।।१७४ ।।
x3
४१. श्लोक १५८-१५९ स्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे-'स्वमथाश्वापहारादि धम्मिलो वृत्तमात्मनः । अत्रागमनपर्यन्तं स्वप्रियाणां
न्यवेदयत् ।।' ४२. 'नाहनम्' हस्त० । ४३. 'मयाऽशोधि पुरे ग्रामारण्येषु पुण्ययोगतः ।' मुद्रितधम्मिलचरित्रे । ४४. श्लोक-१७३-१७५ स्थानेऽयं पाठो मुद्रितधम्मिलचरित्रे - 'स्माह तत्कथाम् । अमित्रदमनो राजा कुशाग्रपुरपत्तनम् ।।'