________________
१४२ mmmmmmm
rrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
कन्याऽभीष्टजनालाभात् पश्चात्तापेन जागरात् । अस्वपीद्धम्मिलेनोक्ता वृहती के युवामिति ।।५३।। साऽथोचे मागधपुरेऽस्त्यमित्रदमनो नृपः । तत्पुत्री विमला प्राप्तयौवना द्वेष्टि पुरुषान् ।।५४।। दुर्वाच्यानि वचांस्याह ततो राज्ञा पुरावहिः । सौधे साऽस्थापि दास्यास्या धात्र्यहं कमलाभिधा।।५५ ।। अन्यदा तत्र वास्तव्यसमुद्रदत्तनन्दनः । अदर्शि धम्मिलो नाम तया राजपथे व्रजन् ।।५६।। सा तस्मिन्ननुरक्ताऽभूत्सख्याऽथ तमवीवदत् । मत्स्वामिनीमुद्वहेति सोऽभ्यधाद्वणिगस्म्यहम् ।।५७ ।। नोद्वहे नृपतेः पुत्री साऽऽहैकान्ते विवाह्यताम् । गम्यं देशान्तरे द्वाभ्यां नो चेदेषा मरिष्यति ।।५८।। ततस्तद्दयया तेनोद्याने भूतगृहान्तरे । तत्रोभयोः सङ्गमोऽस्तु सङ्केत इति निर्ममे ।।५९।। कथञ्चिन्न स तत्रागाधुवा सौभाग्यभाग्यभूः । तत्समानाभिधानोऽस्या दैवयोगात्त्वमागतः ।।६०।। आवामपि रथारूढे तत्रायाते मयोदितम् । धम्मिलोऽस्त्यत्र संप्राप्तस्त्वयोक्तं धम्मिलोऽस्म्यहम् ।।६१।। चेलिवाऽद्य त्वया सार्द्धं प्रातस्त्वां वीक्ष्य साऽशुचत् ।।
तदेतां त्वं वशे कुर्याः सोऽवक् बोध्या त्वयाऽप्यसौ ।।६२।। व्यभाद्वार्तयतोरेवं पृष्ट्वा ग्रामाधिपं ततः । चलिताश्चाटवीमापुर्दुस्तरां भववाद्धिवत् ।।६३ ।। मार्गे वन्येभशार्दूलफणीन्द्रवनसैरिभाः । त्रासिताः सिंहनादाद्यैर्भीते चाश्वासिते स्त्रियौ ।।६४।। अर्जुनश्चौरसेनानी तो यमपुरीं युधा । पन्थानं सुवहं कृत्वा रथारूढश्चचाल सः ।।६५ ।। विस्मिता कमलाऽशंसद्विमला तु न किञ्चन । श्रुत्वाऽथायत्परानीकध्वनिं ते चकिते पुनः ।।६६।। अथोचे धम्मिलो धैर्यान्मयि जीवति वां न भीः । तावदेकः पुमानेत्य धम्मिलं स्माह भी नर ! ।।६७।। निहतोऽर्जुनकश्चौरसेनानीरिति सादरः । अजितसेनः पल्लीशो हष्टस्त्वां द्रष्टुमेत्यसौ ।।६८।। तावदागत एवासाववारोहत्तुरङ्गमात् । धम्मिलोऽपि रथोत्तीर्णः समाश्लिष्टौ मिथोऽथ तौ ।।६९।। पल्लीशः स्माह ते वत्स ! साहसं गुरु सोऽवदत् । देवतानां गुरूणां च प्रसादात्सर्वमप्यदः ।।७०।। ततः स्नेहेन पल्लीशस्तं पल्लीमनयत्तदा । तत्र सक्रियमाणोऽस्थाद्धम्मिलोऽहानि कत्यपि ।।७१।। कमला विमलाग्रे च तं प्रशंसति धम्मिलम् । साऽवोचद्रमकोऽयं न श्लाघनीयो ममाग्रतः ।।७२।। पल्लीपतिमथापृच्छ्य ययौ चम्पां सुखेन सः । आवासार्थं प्रतस्थेऽथ मध्ये मुक्त्वा रथं बहिः ।।७३।।
२८. ...धानस्तु' हस्त० । २९. भोस्त्वया' हस्त० ।