________________
६-छब्बिह-आवस्सयंमि .
mmmmmmmmmmmmmmm १४१
यत्यूचे तव किं दुःखं ? सोऽभ्यधात्साधुपुङ्गवम् । किं केनापि परित्राणं मदुःखस्य भविष्यति ? ।।३०।। इह दुःखं न यः प्राप्तो न यो दुःखहृतौ क्षमः । दुःखिते दुःखितो यो न दुःखं किं तस्य कथ्यते ।।३१।। यत्याह दुःखमाप्तोऽहमहं दुःखहतौ क्षमः । अहं च दुःखिते दुःखी तद्दुःखं कथ्यतां मम ।।३२।। धम्मिलोऽथ निजं दुःखं सर्वमावेदयन्मुनेः । ऊचे च मत्तोऽप्यधिकं किं ते दुःखमभूत्प्रभो ! ।।३३।। अथास्यागडदत्तार्षिराख्यत्सर्वां निजां कथाम् । सक्तस्त्वमप्यतः स्त्रीषु मा भूच्चेद्दुःखभीरुकः ।।३४ ।। गङ्गाया वालुकामब्धेर्जलं हिमवतो मितिम् । जानन्ति बुद्धिमन्तोऽत्र न स्त्रीणां हृदयं पुनः ।।३५ ।। धम्मिलोऽवग्न निःशेषा भवन्त्येवंविधाः स्त्रियः । तत्रिवृत्तिन मेऽद्यापि ततोऽर्थाप्तिविधिं वद ।।३६।। मन्त्राणां देवतानां चाराधनात्तपसाऽपि च । मुनिः प्रोवाच भो भद्र ! प्राप्यते धनमद्भुतम् ।।३७ ।। गृहीतद्रव्यलिङ्गोऽथ धम्मिलो धनकांक्षया । आचामाम्लतपश्चक्रे षण्मासान् वचसा मुनेः ।।३८ ।। ततः साधुं तमानम्य द्रव्यलिङ्गं विमुच्य सः । भ्रमनेकं गतो भूतगृहं रात्रौ प्रसुप्तवान् ।।३९।। तत्र तद्देवतोवाच विश्वस्तस्तिष्ठ धम्मिल ! । द्वात्रिंशतं खेचरेशभूपकन्यास्त्वमाप्स्यसि ।।४०।। स तच्छ्रुत्वा प्रबुद्धः सन् गतशोकस्ततोऽभवत् । दध्यौ तपःप्रभावं चाधिकं चिन्तामणेरपि।।४१।। तदैव पुरतस्तत्रापश्यत् द्वार्यागतं रथम् । तत उत्तीर्य चैका स्त्री बभाषेऽत्रास्ति धम्मिलः ।।४२।। स ऊचे धम्मिलोऽस्म्येष तयाऽवाद्येहि निःसर । रथमारोह सोऽप्याशु रथमारूढवान्मुदा ।।४३।। ददर्शान्तर्वरांकन्यां स्त्रीगिराऽप्रेरयद्रथम् । चम्पावनि य(ग)ता रात्रिविभाताऽस्थाज्जलान्तिके ।।४४ ।। पाययन्नीरमर्वन्तौ कन्ययाऽदर्शि धम्मिलः । तं दृष्ट्वा सा विरक्ताऽभूद्यत्रेच्छाऽजनि नैष सः ।।४५।। क्षुधाक्षामशरीरोऽयं प्रकटस्नायुजालकः । लुप्तालुप्तकचोऽशौचात् श्यामलो मलिनांशुकः ।।४६।। ऊचे तां च त्वयाऽऽनीतः कोऽयं मर्त्यः पिशाचवत् । न द्रष्टुमपि शक्योऽसौ परिभोगोऽस्य किं पुनः ।।४७।। निवर्तिष्ये ततः स्माह धात्री मा स्म निवर्तथाः । पराभवपदं पुत्रि ! मात्रादीनां भविष्यसि ।।४८।। देशान्तरगता तु त्वं कुर्याः सर्वं यथेप्सितम् । तच्छृण्वन्नपि मौनेनाखेटयद्धम्मिलो हयौ ।।४९।। ग्रामे क्वाप्याश्रयायान्तः सोऽगान्मुक्त्वा रथं बहिः । सोऽन्तःशल्यं हयं ग्रामस्वामिनः प्रेक्ष्य धम्मिलः ।।५०।। शुष्कमृल्लेपतो ज्ञात्वाऽऽकृष्य शल्यं हविर्भूतम् । सीवित्वा व्रणमौषध्या रोहिण्याऽऽरोहयत्क्षणात्।।५१।। ग्रामेशो मुदितस्तस्य भव्यमाश्रयमार्पयत् । अश्वयोर्यवचारीश्च चक्रे चातीव गौरवम् ।।५२।।
२७. 'अश्वानां यवसाव्यं च' हस्त० ।