________________
१४० rrrrrrrrom
www.mar 'मन्नह जिणाण आणं' स्वाध्यायः
बहुकालं तदासक्तस्तत्रास्थाद्भोगलालसः । प्रत्यहं तद्गृहे प्रैषीद्दीनाराष्टशतं प्रसूः ।।१०।। एवं पूर्वार्जिते द्रव्ये प्रयात्यम्बा रुरोद सा । किं रोदिषीति भर्ताऽऽह द्रव्यं यातीति साऽवदत् ।।११।। प्रियेणोचे मयाऽवारि तथाप्येवं कृतं त्वया । तन्मा रोदीस्ततः पुत्रवियोगात्पितरौ मृतौ ।।१२।। यशोमत्यपि नि:स्वत्वे प्रेषीत्स्वाभरणान्यपि । अक्कापि नि:स्वतां ज्ञात्वा पश्चात्तान्यार्पयत्ततः ।।१३।। सापि विक्रीय गेहाद्यं गच्छति स्म पितुर्गृहम् । ऊचे वसन्तसेनाऽपि कुट्टिनी स्वां सुतामिति।।१४।। मुञ्चैनं निर्धनं सापि तद्रक्ता तं न मुञ्चति । इक्षुकूर्चादिदृष्टान्तान्नाक्कोक्तानप्यजीगणत् ।।१५।। कृत्वाक्का प्रोत्सवं शाठ्यादानयत् प्रमदाकुलम् । आपानकं व्यधादक्का तत्राचेतनयोर्द्वयोः ।।१६।। धम्मिलं निजदासीभिरोज्झयनगराद्वहिः । प्रातस्त्यैः पवनैर्बुद्धो वीक्ष्यात्मानं भुवि स्थितम् ।।१७।। चिन्तयामास चित्ते स्ववेश्याविलसितं तदा । आसां स्वार्थाश्रयिप्रेम तत्त्वतो न यदुच्यते ।।१८।। सर्पाणां क्षितिपानांच व्याघ्राणां पावकस्यच ।पण्यस्त्रीणामपि प्रायोन हि कोऽपि प्रियो भवेत्।।१९।। पृष्ट्वा पृष्ट्वा ततः स्वौको गतः प्रातिवेश्मिकैः । द्रव्यक्षयो मृतिः पित्रोः पत्नी पितृगृहं गता ।।२०।। तञ्चाकर्ण्य क्षणाद्वज्राहतवन्मूर्छितोऽपतत् । विमूर्छश्चोत्थितो दध्यौ किमतो जीवितेन मे ।।२१।। निर्गत्य नगरान्मृत्यै जीर्णोद्यानं गतस्ततः । तत्रासिना छिन्दितं स्वं देवता तमकुण्ठयत् ।।२२।। चितां प्रज्वाल्य चाविक्षदेवता तामशीतयत् । भक्षितं कालकूटं च ग्रस्तं तज्जठराग्निना ।।२३।। मुक्तवान् स्वं तरोरग्राद्धूल्यांतूल्यामिवापतत् । तदा तं दिवि कोऽप्याह मा मैवं साहसं कृथाः ।।२४।। ततः स चिन्तयन्नस्ति कर्त्तव्यं किं मयाऽधुना । इतो वसन्ततिलका बुद्धाऽनालोक्य धम्मिलम् ।।२५।। पप्रच्छाक्कां धम्मिलः क्व ? साऽऽह तं वेत्ति कोऽधनम् । साऽथ दध्यौ व्यधादेतदर्थमेवमधूत्सवम्।।२६।। ततो वेणी बबन्धासौ सर्वं शृङ्गारमत्यजत् । प्रत्यज्ञासीछेति नरं नेहाऽन्यं धम्मिलं विना ।।२७।। धम्मिलोऽपि ततो जीर्णोद्यानात् स्निग्धवनं गतः । अशोकद्रोरधः साधुं धर्मसाक्षातमैक्षत।।२८। साधुस्तमाह किमहो ईदृक्साहसकार्यसि । प्रणम्य सोऽभ्यधात्साधुं प्रभोऽहं दुःखभागिति ।।२९।।
१९. श्लोक १६-१७-१८ स्थाने मुद्रितधम्मिलचरित्रेऽयं पाठः
'आपानकं व्यधादक्का तत्राचेतनयोर्द्वयोः । धम्मिलं निजदासीभिरोज्झयन्नगराद्वहिः ।।१६।।
'प्रातस्त्यैः पवनैर्बुद्धो वीक्ष्यात्मानं भुवि स्थितम् । चिन्तयामास चित्ते स्ववेश्याविलसितं यतः ।।१७ ।। २०. ...दाह्वयत्' मुद्रितधम्मिलचरित्रे । २१ विधात्पश्चाद्' हस्त० । २२. 'नरं' मुद्रितधम्मिलचरित्रे ।
२३. गतस्य' मुद्रितचरित्रे । २४. पत्न्या पितृगृहे गतिः' मुद्रितचरित्रे । २५. मेवामुमुद्यमम्' मुद्रितचरित्रे । २६. धर्ममाख्यान्त' मुद्रितचरित्रे ।