________________
६- छव्विह- आवस्सयंमि
अथ परीषदमाह -
52
“सोउं उवट्टियाए विणीअ[आ?]वक्खित्ततदुवउत्ताए । एवंविहपरिसाए पच्चक्खाणं कहे अव्वं ।।
यथा
अथ प्रत्याख्यानफलमाह
53
44
आणागिज्झो अत्थो आणाए चेव सो कहेअव्वो ।
दिट्ठतिअ दिट्टंता कहणविही विराहणा इहरा ।। " [ आवश्यकनिर्युक्ति-१६१८, १६१९]
-
54
'पंच्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु ।
इहलोइ धम्मिलाई दामन्नगमाई परलोए ।।
-
१३९
।। इहलोकफले धम्मिलकथा ।।
कुशाग्रपत्तने त्वासीज्जितशत्रुर्नराधिपः । धारिणी तस्य राज्ञी च गुणरत्नौघधारिणी । । १ । । सुरेन्द्रदत्तः सार्थेशस्तत्र श्रीद इव श्रिया । आसीत्तस्य सुभद्रेति प्रेयसी श्रेयसीतमा ।।२।। अन्यदाऽऽपन्नसत्त्वाया दानधर्मादिदोहदाः । जातास्तस्याः प्रियेणाशु निःशेषा अपि पूरिताः । । ३ । सूनुः शुभेऽह्नि संजातस्ततः पित्रा प्रमोदतः । पुत्रजन्मोत्सवश्चक्रे जगदानन्ददायकः ।।४।। तस्य धम्मिल इत्याख्या विदधे दोहदानुगा । लाल्यमानोऽनिशं पञ्चधात्रीभिर्वर्धते स्म सः । । ५ ।। द्विसप्ततिकलाविज्ञः स व्यवाहि यशोमतीम् । तत्रैवेभ्यधनवसुधनदत्तातनूद्भवाम् ।।६।। भोगक्षमोऽप्यतद्रागी हस्तान्नोज्झति पुस्तिकाम् । भोगत्यागविलासाद्यैः फलं गृह्णाति न श्रियः ।।७।। मात्रोचे तत्पिता पुत्रः सुहृद्गोष्ठ्यां नियोज्यते । पितोचेऽम्भः स्वयं नीचैर्यात्येव निरुपक्रमम् ।।८।। परं क्षिप्तः सुहृद्गोष्ठ्यां स्नेहान्मात्रा सुतस्ततः । वसन्ततिलकावेश्यावेश्म तत्सङ्गतो गतः ।। ९ ।।
१८
१७. ' तथा ' हस्त० । १८. 'परिक्षिप्तः ' मुद्रितधम्मिलचरित्रे ।
52. श्रोतुमुपस्थितायां विनित [ता] - व्याक्षिप्त- तदुपयुक्तायाम् । एवंविधपर्षदि प्रत्याख्यानं कथयितव्यम् ।। 53. आज्ञाग्राह्योऽर्थ आज्ञयैव स कथयितव्यः । दान्तिको दृष्टान्तात् कथनविधिः विराधना इतरथा ।।
54. प्रत्याख्यानस्य फलमिह - परलोके च भवति द्विविधं तु । इहलोके धम्मिलादयो दामन्नकादयः परलोके ।।