________________
rrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
तथा -
।। इहलोकफले कुन्तीसम्बन्धः ।। क्वापि वनभुविस्थितानां पाण्डवानामपराह्ने वातप्रेरितमतिसुगन्धि सहस्रदलकमलं खाद्धर्मपुत्राग्रे पतितम्, चिन्तयामास ।
"वृन्दैर्वृन्दारकाणामतुलपरिमल-मूर्ध्नि चारोप्यते ज्ञैः ;
वैरत्यागादतुल्याभ्युदयिनि वसतः, शारदा श्रीश्च यस्मिन् । धन्यानामाननाब्जैः कलयति तुलनां, भानुशक्तिप्रभावां;
तत्पद्मं पुष्पजातौ जयति मधुकरै-र्गीयमानोरुकीर्ति ।।" तल्लात्वाशिषं ददत्या जनन्याश्चरणावानर्च । साऽपि मुदा द्रौपद्यै ददे । सा कर्णावतंसीकृत्य स्वपतिं धर्मपुत्रं व्यजिज्ञपयत् । द्वितीयश्रवणाय विलोक्यत एव, नो चेन्निये । ततो दुर्मोचं स्त्रीकदाग्रहं ज्ञात्वा तदर्थं भीमः प्रहितः । स प्राच्यां समीरागममाशङ्कमानस्तामेव दिशमनुस्मरन्महासर एकं गतः। अत्र नानाविधानि अपूर्वाणि तानि दृष्ट्वा हष्टस्तदपूर्वसरो दर्शयितुं निजकुटुम्बं गृहीत्वा समीपे वने आवासं कृत्वा तत्सरो गाहमानः कमलैः सहसोऽन्तर्दधे । अथाऽर्जुनो समाधिपरस्तत्सरो द्रष्टुं प्रविष्टो मध्ये गतो ममज्ज। तदनु तयैव रीत्या नकुलः सहदेवोऽपि । अथाऽत्र समये युधिष्ठिरमपि कुन्त्यादेशात् सरो मध्ये गतं मग्नं ज्ञात्वा किं कर्तव्यतामूढा कुन्ती सवधूका कायोत्सर्गयति । निशान्ते ऽम्बिकागत्य तामाश्वास्यावधिना ज्ञात्वा पातालेऽगात् । चन्दनदूनिव नागपाशैस्तान् बद्धान् दृष्ट्वा आः ! किमेतदिति वदन्ती धरणेन्द्रमाह! यदमी नेमिनः श्राद्धाः, तदैतेषां त्वया सधार्मिकत्वं चक्रे। आगतस्य निजगेहमप्यरे गौरवं विदधते महाधियः। तदमी सत्कृत्य प्रेष्याः । यतः -
“औचित्यमेकमेकत्र, गुणानां कोटिरेकतः ।
विषायते गुणग्राम औचित्यपरिवर्जितः ।।" । ततस्तान् संहरणौषध्या व्रणानि रोधयित्वा सिंहासने उपवेश्य तेजोमयीमूमिकाममूल्यां स्थावरजङ्गगमविषनाशकहारं च दत्त्वा एतत्सरःप्राहरिकैः सप्पैरज्ञानाद्वः स्वरूपमजानद्भिर्यदपरद्धं तत्क्षमयति स्म । ततो विसज्जीतेऽम्बिकया विमानेऽऽरोप्य मातुः पादाग्रे मुक्ताः । माता सवधूका कायोत्सर्गमपारयत्। अम्बिकाऽपि जैनधर्माराधने सम्यग् यतितव्यमित्युपदेश्यान्तर्दधे ।
।। इति कायोत्सर्गे कुन्तीसम्बन्धः ।।