________________
४-छविह-आवस्सयंमिmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ११७
वेति ।' जनाः कथयन्ति 'कोऽपि किमपि ।' राजा चिन्तयति, 'किं मां प्रतारयति ?' तावता स चिन्तामणिप्रसादात् स्तम्भशतबहुरम्यमण्डपाकुलं चतुर्दारं कृत्वा राजानं निमन्त्रणार्थं गतः । राजा बहुविभूतिदर्शनविस्मितस्तत्र प्राप्तः । बहुविस्तरेण स्नानादि कृत्वा भोजनार्थमुपविष्टः । ततो गुणसुन्दरी स्फारशृङ्गारा पूर्वद्वारेणैत्य फलावलिकां परिवेषयति । ततो वेषं परावृत्य द्वितीयद्वारेणैत्य पक्वान्नम्, ततः कृतनवाद्भुतशृङ्गारा तृतीये द्वारे शालिदालिघृतादि, एवं चतुर्थेन घोलादि परिवेष्य गता । तावता राज्ञा पुण्यपालपार्श्वे पृष्टम्, 'तव कति वध्वः ?' तेनोक्तम् ‘यावत्यः स्वामिना दृष्टास्तावत्यः ।'
राजा तत उपरिभूमौ पल्यंके विश्रान्तः, ततो गुणसुन्दरी पुरातनं शाटितं नृपदत्तं वेषं परिधाय तत्र गता । नृपं प्रणम्य वक्ति, 'मामुपलक्षयसि ?' ततो राजा तां दृष्टवा उपलक्ष्य बाष्पाविलनयनस्तामङ्के आरोप्य, 'वत्से ! त्वं गुणसुन्दरी ? भोजनपरिवेषकाले नोपलक्षिता । वदति चाहमधन्यः ।' नमस्कृतं किमपि, तत उचितवेषं ग्राहीत्वागता पृष्टा किमेतत् ? तया सर्वं कथितं यथाजातं विभवादिधर्मफलम् । ततः स पुण्यपालो महतामहेन राज्ञा नगरे प्रवेशितः । एकदा तु राजा पुण्यपाल-गुणसुन्दरीसमेतो वने क्रीडार्थं गतः । मुनिं दृष्ट्वा तद्धर्मं श्रुत्वा प्रतिबुद्धः। ततः पुण्यपालस्य राज्यं दत्त्वा प्रव्रजितः । पुण्यपालोऽपि नियमत्रयं सविशेष प्रभावनासहितं पालयन् चिरं राज्यं कृत्वा गुणसुन्दरीतनयं सुलोचनं राज्ये निवेश्य दीक्षां गृहीत्वा सिद्धिं गतः ।
।। इति प्रतिक्रमणादि-पुण्योपरि पुण्यपालराजसम्बन्धः ।।
[इति पडिकमणआवस्सयम् ]