________________
११६ mmmmmmmmm
mmmmmmmmar 'मन्नह जिणाण आणं' स्वाध्यायः
वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यद्बोध्यते; तत्सर्वं सुरलोकभूतिसदृशं धर्मस्य विस्फूर्जितम् ।।" “जो पूएइ जिणिंद, जस्स मणे जिणमयं सया वसई ।
तस्सत्येण परेण वि, चिन्तामणिणा वि का गणणा ।।" इत्याधुपदेशेन प्रथमं स्वगृहासन्नजिनालये देवनमस्करणनियमं ग्राहितः । प्रातः शनैः शनैः मध्याह्निजिनपूजानियमं ग्राहितः । स एतन्नियमद्वयं पालयन्मूल्यानयनेन निर्वाहं करोति । वनादागच्छद्वनकुसुमानयनेन मध्याह्ने पूजां करोति । एकदा भोजनानन्तरं सा गुणसुन्दरी दरिद्रशिरसि चिकुरविवरणं करोति । तावता शिरसि गोशीर्षचन्दनगन्ध उच्छलितः । चिन्तयति किमेतत्पृच्छति च 'युष्माभिरद्यतना मूली विक्रीता न वेति ?' तेनोक्तम् - 'कान्दविकापणे मुक्ताऽस्ति ।' तयोक्तम्- 'तामानय ।' आनीता, दृष्टाश्चन्दनफालिकाः । वनाञ्च शेषचन्दनकाष्टानि आनायितानि । सर्वाणि विक्रीतानि । दशलक्षसुवर्णप्राप्तिः । व्यवहारी जातो गृहीतावासे तिष्ठति । तयोक्तम् - ‘दृष्ट इदानीं धर्ममहिमा, ततो विशेषेण धर्मं कुरु । इत्युपदेशेनोभयकालप्रतिक्रमणनियमं ग्राहितः । ततः स व्यवहारी एकदा प्रतिक्रमणं कुर्वन् प्रदीपनाक्रान्तचौरैद्रविणाद्यपह्रियमाणं पश्यति स्म । परिजनः कलकलं करोति गुणसुन्दरी च कथयति 'क्व सारद्रव्यम् ?' इत्यादि । बहुप्रकारेण वादितोऽपि न वदति ।
"धर्मे दाढय फलं वृक्षे जलं नद्यां बलं भटे ।
खलेऽसत्यं जले शैत्यं घृतं भोज्ये च जीवितम् ।।" अत्रान्तरे दीप्यमानं पुरुषं ददर्श, न च प्रदीपनम्, न चौराः, न च गुणसुन्दरी । स च वदति 'यादृशस्त्वमिन्द्रेण प्रशंसितस्तादृश एव दृढनियमोऽसि । अहं देवो वरं वृणीथ ।' स न याचते । अमोघं देवदर्शनमिति कृत्वा चिन्तामणिं समर्पयित्वा गतः । तस्य च पुण्यपालेति नामख्यातम् । ततः स चिन्तामणिप्रसादाद्वहुवाहन-परिजनोपेतो गौडदेशं गतः । तत्र भद्रगजेन्द्राणां दशसहस्राणि गृहीतानि । ततो भदिलपुरं प्रत्यागतः । तदासने द्वितीयं भद्दिलपुरमिव सार्थमावास्य वणिक् प्रतिरूपेण तत्र स्थितः । प्राभृतमादाय पुण्यपालो नृपमिलनार्थं गतः । कुशलागमनादि प्रश्नः । राज्ञापि तं करिविक्रयकारिकं श्रुत्वा उक्तम् - मह्यं मूल्येन करिसहस्रं देहि । तेनोक्तम्, 'सार्थे समागत्य परीक्ष्य गृह्णन्तु ।' अरिसिंहो राजा बहुपरिवारवृतस्ततो गतः, तत्र विलोकिता गजाः । तावता मध्याह्नो जातः । ततः पुण्यपालेन राजा भोजनार्थं निमन्त्रितः । राजा कथयति-'पुरा सामग्री विना कथं भोजनं दास्यती'त्युक्ते, 'सर्वं भव्यं भावी'त्युक्त्वा स्वकार्ये लग्नः । कियढेलानन्तरं राजा जनपार्श्वे पृच्छति, ‘स सामग्री कुर्वाणोऽस्ति न
43. यः पूजयति जिनेन्द्रं यस्य मनसि जिनमतं सदा वसति ।
तस्यार्थेन परेणाऽपि चिन्तामणिनाऽपि का गणना ।।