________________
४- छव्विह- आवस्सयंमि
अत्र सम्बन्धः
41
" सव्वंपि अ संपज्जइ, मणिच्छियं निच्छयं सुपुन्नाणं । जह संपत्तं गुणसुंदरी, जणएण चत्ता ।। "
तत्कथा चेयम् -
।। प्रतिक्रमणादिपुण्योपरि पुण्यपालराज्ञः कथा ||
भद्दिलपुरेऽरिसिंहः राजा, कनकमाला राज्ञी, तत्सुता गुणसुन्दरी सर्वकलाकुशला श्रीजिनधर्मवासि च । यौवनमनुप्राप्ता, एकदा सभामध्ये पितुः प्रणामार्थं गता । राज्ञा तां सभालोकं च दृष्ट्वा साहंकारमुक्तम्, 'भो जनाः ! कस्य प्रसादेन यूयं विलसथ ?' तैरुक्तम्, 'तव प्रसादेन, राजप्रसादो दिव्यास्त्र-वाणिज्यहस्तिरत्नानां महालाभाय जायते । तावता गुणसुन्दर्या नृपतिनिरपेक्षमियं गाथोक्ता -
42
“सा जयउ जओ लच्छी, जीआ पसाएण ईसरजणस्स ।
सच्चमलियं पि वयणं, सुअणपुरिसा वि मन्नंति ।।
"1
तत् श्रुत्वा राज्ञाऽतीवरुष्टेन कस्य प्रसादेन विलसतीति प्रोक्तम् -
"यां लब्ध्वेन्द्रियनिग्रहो न महता भावेन संपद्यते;
या बुद्धेर्न विधेयतां प्रकुरुते धर्मे न या वर्त्तते ।
लोके केवलवाक्यमात्ररचनायां प्राप्य संजायते; या नैवोपशमाय नापि यशसे विद्वत्तया किं तया ।। "
यतः
तयोक्तम्-कर्मप्रसादात्, ततश्चातितरतमरुष्टेन राज्ञा राजपाटीं गच्छता कमप्यतिदीनं दरिद्रं मूलीवाहकं दृष्ट्वा तस्य दत्ता । ततः सा दरिद्रं वदति - 'आयुषो राजः ! त्वं धर्मं कुरु, धर्माल्लक्ष्मीप्राप्तिः । '
११५
“ यन्नागा मदवारिभिन्नकरटास्तिष्ठन्ति निद्रालसा; द्वारे हेमविभूषिताश्च तुरगा हेषन्ति यद्दर्पिताः ।
41. सर्वमपि सम्पद्यते मनेच्छितं निश्चयं सुपुण्यानाम् । यथा सम्प्राप्तं गुणसुन्दर्या जनकेन त्यक्तया ।।
42. सा जयतु यतो लक्ष्मी यस्याः प्रसादेन ईश्वरजनस्य । सत्यमलिकमपि वचनं सुजनपुरुषा अपि मन्यन्ते ||