SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ११४ mmmmmm wwwwwwwwwwww. 'मन्नह जिणाण आणं' स्वाध्यायः 37 तए णं ते थेरा भगवंतो समणेणं भगवता महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति णमंसंति, अतिमुत्तं कुमारसमणं अगिलाए संगिण्हंति जाव [अगिलाए उवगिण्हंति, अगिलाए भत्तेणं पाणेणं विणएणं] वेयावडियं करेंति । एवं अतिमुत्तकुमारसमणस्स इरिआवहिअपडिक्कममाणस्स दगमट्टिअ २ पुणो उच्चारणसुहभावेण बहुअरा कम्मनिज्जरा जाया । केवलुप्पाए वि तमेव झाणं हेऊ णेओ इअ बहुस्सुअवयं । . अतो महारम्भपरिग्रहवद्भिः श्रद्धालुरपि यदि द्विवेलं प्रतिक्रमणं निरायासं निर्वहनव्ययमपि न विधीयते, तदा तेषां परीत्तसंसारता कथं स्यात् ? प्रतिक्रमणं तु सामान्यवृत्त्या सर्वत्र स्खलनादौ प्रतिपदं प्रतिपदम् - "मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ । मित्ति अ मेराइ ठिओ दुत्ति दुगंछामि अप्पाणं ।। कत्ति कडं मे पावं डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ।।" [आवश्यकनियुक्ति-१५०५-०६) इत्येवंरूपमेव मिथ्यादुष्कृतं दत्तं बहुपापभरनिवारकं सद्गतिनिदानं च । यदुक्तं श्रीआवश्यके - “जस्स य इच्छाकारो मिच्छाकारो अ परिचिआ दोऽवि । तइओ अ तहक्कारो न दुल्लहा सुग्गई तस्स ।।" [आवश्यकनियुक्ति-६९०] 37. ततस्ते स्थविरा भगवन्तो श्रमणेन भगवता महावीरेण एवमुक्ताः सन्तः श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति, अतिमुक्तं कुमारश्रमणम् अग्लान्या संगृह्णन्ति, यावत् [अग्लान्या उपगृह्णन्ति, अग्लान्या भक्तेन पानेन विनयेन वैयापृत्यं कुर्वन्ति । एवं अतिमुक्तकुमार-श्रमणस्य इर्यापथिकीप्रतिक्रममाणस्य 'दगमट्टिअ-२' पुनः उच्चारणशुभभावेन बहुतरा कर्मनिर्जरा जाता । केवलोत्पादेऽपि तमेव ध्यानं हेतुः ज्ञेय इति बहुश्रुतवचनम् । 38. 'मी ति मृदुमार्दवत्वे 'छे'ति च दोषानां छादने भवति । 'मी'ति च मर्यादायां स्थितो 'दु'इति जुगुप्साम्यात्मानम्।। 39. 'क' इति कृतं मया पापं 'ड' इति च लवयामि तमुपशमेन । एषो मिथ्यादुष्कृतपदस्याक्षरार्थः समासेन ।। 40. यस्य चेच्छाकारो मिच्छाकारश्च परिचितौ द्वावपि । तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्य ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy