________________
४- छव्विह- आवस्सयंमि
१६
सकलोऽपि तेषां प्रमाद एव, न विधिरेकवारं वा अकरणं वा । प्रथमान्तिमजिनैस्तु सर्वजीवानपेक्ष्यैव सर्वाऽपि क्रियाविधिः दर्शिता, न तु विभेदेन श्राद्धादीनामेकवारं अकरणं वा । यत्तु श्राद्धादिभिः प्रमादमङ्गीकृत्यैकवारं कदाचिन्मूलतोऽपि परित्याग एव विधीयमानोऽस्ति, स तु तेषां प्रमाद आयतिसुन्दरो न विभाव्यः । यतः
“श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं हुताशेन । संसारबन्धनगतैर्न च प्रमादः क्षमः कर्तुम् ।।
अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ।। आज्ञाप्यते यदवशस्तुल्योदर-पाणि-पादद- वदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ।। " प्रमादाश्च के ?
16
"मज्जं विसय कसाया निद्दा विकहा य पंचमी भणिया । एए पंचपमाया जीवं पाडंति संसारे ।। "
अष्टधाऽपि प्रमादो ज्ञेयः
१७
"माओ अ जिणिदेहिं भणिओ अट्टभेओ ।
अन्नाणं संसओ चेव मिच्छानाणं तहेव य ।।
~~१०९
-
[उत्तराध्ययननिर्युक्ति-४/१८०]
18
रागो दोसो मइब्सो धम्मंमि य अणाय ।
जोगाणं दुप्पणिहाणं च अट्ठहा वज्जिअव्वओ ।।" [आराधनापताका-६८७,६८८]
१६. 'सर्वोऽपि क्रियाविधि दर्शितो' हस्त० । १७. 'मुणिदेहिं' प्रवचनसारोद्धारे । १८. 'मिच्छन्नाणं' हस्त० । १९. 'दुप्पहाणं'
हस्त० ।
16. मद्यं विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्चप्रमादा जीवं पातयन्ति संसारे ।।
17. प्रमादश्च जिनेन्दैः भणितोऽष्टभेदकः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ।।
18. रागो द्वेषो मतिभ्रंशो धर्मे चानादरः । योगानां दुष्प्रणिधानं चाष्टधा वर्जयितव्यः ।।