SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ३-छविह-आवस्सयंमि mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm १०५ एवं कालो वच्चइ । तेऽवि अन्नया तहारूवाणं थेराणं अंतिए पव्वइया चत्तारि, बहुस्सुया जाया । आयरियं पुच्छिउं माउलगं वंदगा [वंदिउं] जंति । एगमि णयरे सुओ, तत्थ गया, वियालो जाउत्तिकाउं बाहिरियाए ठिया, सावगो य णयरं पवेसिउकामो सो भणिओ-सीयलायरियाणं कहेहि-'जे तुझं भाइणिज्जा ते आगया वियालोत्ति न पविट्ठा' तेणं कहियं, तुट्ठो, इमेसिपि रत्तिं सुहेण अज्झवसाणेण चउण्हवि केवलणाणं समुप्पण्णं । पभाए आयरिया दिसाउ पलोएइ, एत्ताहे मुहुत्तेणं एहिंति, पोरिसिसुत्तं मण्णे करेंति अच्छंति, उग्घाडाए अत्थपोरिसित्ति, अइचिराविए य ते देवकुलियं गया । ते वीयरागा न आढायंति । डंडओऽणेण ठविओ, पडिक्कंतो, आलोइए भणइ-'कओ वंदामि ?' भणंति-'जओ भे पडिहायइ ।' तो चिंतेइ-'अहो दुट्ठसेहा निल्लज्जत्ति,' तहवि रोसेण वंदइ । चउसुवि वंदिएसु, केवली किर पुव्वपउत्तं उवयारं न भंजइ जाव न पडिभिज्जइ, एस जीयकप्पो, तेसु नत्थि पुवपवत्तो उवयारोत्ति, भणंति-'दव्ववंदणएणं वंदिया भाववंदणएणं वंदाहि,' तं च किर वंदंतं कसायकंडएहिं छट्ठाणपडियं पेच्छंति । सो भणइ-'एयपि नज्जइ ?' भणंति-'बाढं,' 'किं अइसओ अस्थि ?,' 'आमं,' 'किं छाउमथिओ केवलिओ ?,' केवलि भणंति-केवलिओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ । तेहिं चेव कंडगठाणेहिं नियत्तोत्ति जाव अपुवकरणं अणुपविट्ठो, केवलणाणं समुप्पण्णं । चउत्थं वंदंतस्स समत्तीए । सा चेव काइया चिट्ठा एगंमि बंधाए एगमि मोक्खाय । पुव्वं दव्ववंदणं आसि पच्छा भाववंदणं जायं ।। ।। इति तृतीयावश्यके शीतलाचार्यदृष्टान्तः ।। [इइ तइयआवस्सयं 69. एकस्य राज्ञः पुत्रः शीतलो नाम, स च निर्विण्णकामभोगः प्रव्रजितः, तस्य च भगिन्यन्यस्मै राज्ञे दत्ता । तस्याश्चत्वारः पुत्राः । सा तेभ्यः कथान्तरेषु [कथावसरेषु] कथां कथयति यथा- 'युष्माकं मातुलः पूर्वप्रव्रजितः,' एवं कालो व्रजति । तेऽप्यन्यदा तथारूपाणां स्थविराणामन्तिके प्रव्रजिताश्चत्वारः, बहुश्रुता जाताः । आचार्य पृष्ट्वा मातुलं वन्दकाः [वन्दितुं| यान्ति । एकस्मिनगरे श्रुतः, तत्र गताः, विकालो जात इतिकृत्वा बाहिरिकायां स्थिताः, श्रावकश्च नगरं प्रवेष्टुकामः स भणितः-शीतलाचार्येभ्यः कथये:-'ये युष्माकं भागिनेयास्ते आगता विकाल इति न प्रविष्टाः ।' तेन कथितम्, तुष्टः, एषामपि रात्रौ शुभेनाध्यवसायेन चतुर्णामपि केवलज्ञानम् समुत्पन्नम् । प्रभाते आचार्या दिशः प्रलोकयन्ति, इदानीं मुहूर्तेनैष्यन्ति, सूत्रपौरुषीं कुर्वन्तः [इति मन्ये तिष्ठन्ति, उद्घाटायामर्थपौरुषीमिति, अतिचिरायिते च ते देवकुलिकां गताः । ते वीतरागा नाद्रियन्ते । दण्डकोऽनेन स्थापितः, प्रतिक्रान्तः, आलोचिते भणति-'कुतो वन्दे ?,' भणन्ति-'यतो भवतां प्रतिभासते ।' स चिन्तयति'अहो दुष्टशैक्षा निर्लज्जा इति ।' तथापि रोषेण वन्दते । चतुर्ध्वपि वन्दितेषु, केवली किल पूर्वप्रयुक्तमुपचारं न भनक्ति यावन्न प्रतिभिद्यते [ज्ञायते], एष जीतकल्पः, तेषु नास्ति पूर्वप्रवृत्त उपचार इति, भणन्ति-'द्रव्यवन्दनकेन वन्दिता भाववन्दनकेन वन्दस्व,' तं च किल वन्दमानं कषायकण्डकैः षट्स्थानपतितं पश्यन्ति । स भणतिएतदपि ज्ञायते ?, भणन्ति-'बाढम्,' 'किमतिशयोऽस्ति ?' 'ओम्,' 'किं छाद्यस्थिकः कैवलिकः ?' केवलिनो भणन्ति-'कैवलिकः । स किल तथैवोद्धूषितरोमकूपोऽहो मया मन्दभाग्येन केवलिन आशातिता इति संवेगमागतः । तैरेव कण्डकस्थाननिर्वृत्त इति यावदपूर्वकरणमनुप्रविष्टः, केवलज्ञानं समुत्पन्नम् । चतुर्थं वन्दमानस्य समाप्तौ । सैव कायिकी चेष्टा एकस्मिन् बन्धायैकस्मिन् मोक्षाय । पूर्वं द्रव्यवन्दनमासीत् पश्चाद्भाववन्दनं जातम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy