SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [३-छव्विह-आवस्सयंमि [६-वन्दनकावश्यकम् ] अथ तृतीयमावश्यकम् । वन्दनकानि गुरुभिः सार्धं प्रतिक्रमणकरणे साधुभिः श्राद्धैश्चावश्यं श्रीगुरुपादमूले कर्त्तव्यान्येव । वन्दनेषु कृतेषु च लाभः कः स्यादिति दर्शयति - "'विणओवयार माणस्स, भंजणा पूअणा गुरुजणस्स । तित्थयराण य आणा, सुअधम्माराहणाऽकिरिआ ।। 'विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाउ विप्पमुक्कस्स, कओ धम्मो को तवो ? ।। जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमुक्खाय । . तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ।।" [आ.नि.-१२१५-१२१७] वन्दनकप्रदानेनैव श्रीकृष्णस्य ईयान् लाभः प्रोक्तः सिद्धान्तादौ - ""तित्थयरत्तं सम्मत्त-खाइअं सत्तमीइ तइआए । वंदणएणं विहिणा, बद्धं च दसारसीहेणं ।।" [सम्बोधसित्तरी-१०६] कियत्सु स्थानकेषु वन्दनकानि दातव्यानीति ज्ञापयति - "पडिकमणे सज्झाए काउस्सग्गावराह-पाहुणए । आलोयण-संवरणे उत्तमढे य वंदणयं ।।" [आवश्यकनियुक्ति-१२००] १. 'साहुण वन्दणेणं' उपदेशतरङ्गीणीवृत्तौ । 1. विनयोपचारो मानस्य भञ्जना पूजना गुरुजनस्य । तीर्थंकराणां चाज्ञा श्रुतधर्माराधनाऽक्रिया ।। 2. विनयः शासने मूलं विनीतः संयतो भवेत् । विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तपः ? ।। 3. यस्माद्विनयति कर्माष्टविधं चतुरन्तमोक्षाय । तस्मादेव वदन्ति विद्वांसः विनय इति विलीनसंसाराः ।। 4. तीर्थकरत्वं क्षायिकसम्यक्त्वं सप्तम्यास्तृतीयायाः । वन्दनेन विधिना, बद्धं च दशार्हसिंहेन ।। 5. प्रतिक्रमणे स्वाध्याये कायोत्सर्गापराध-प्राघूर्णके । आलोचना-संवरणे, उत्तमार्थे च वन्दनकम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy