SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ [२-छविह-आवस्सयंमि] [५-चतुर्विंशतिस्तवः] द्वितीयमावश्यकं चतुर्विंशतिस्तवश्चतुर्विंशति-तीर्थंकरनामग्रहणवर्णनरूपः । स च प्रतिक्रमणं विधीयमानो भव्यजन्तूनां महानिर्जराहेतुः स्यात् । यतः श्रीश्राद्धप्रतिक्रमणसूत्रे - "चिरसंचिअ-पावपणासणीइ, भवसयसहस्समहणीए । चउवीस-जिण-विणिग्गय-कहाइ वोलंतु मे दीअहा ।।"[श्राद्धप्रतिक्रमणसूत्र-४६] श्रीभक्तामरस्तोत्रेऽपि श्रीमानतुङ्गसूरिविरचिते - [आस्तां तव स्तवनमस्त-समस्त-दोषम् त्वत्संकथापि जगतां दुरितानि हन्ति ।] "दूरे सहस्रकिरणः कुरुते प्रभैव; पद्माकरेषु जलजानि विकासभाञ्जि ।।" ॥ चतुर्विंशतिस्तवे श्रीजम्बूकुमारसम्बन्धः ।। राजगृहे श्रेणिके नृपे सति ऋषभदत्तः श्रेष्ठी, धारिणी पत्नी, पुत्रेच्छोस्तस्या अधृतिं कुर्वाणाया विनोदनाय श्रेष्ठी ऋषभदत्तो वैभाराद्रौ चेइअवंदणत्थं गओ [चैत्यवन्दनार्थं गतः । वलमानाभ्यां मार्गे सिद्धपुत्रो जसमित्रश्राद्धो दृष्टः, पृष्टश्च 'क्व प्रस्थितोऽसीति ?' स प्राह - ‘इहोद्याने श्रीसुधर्मगणधरं नन्तुम्, युवामप्यागच्छतः ? ततो गतास्त्रयोऽपि, जसमित्रेण पृष्टम्-‘स्वामिन् ! कीदृशो जम्बू: यन्नाम्नाऽयं जम्बूद्वीपः ?' स्वामिना सविस्तरं तत्स्वरूपमूचे । तदा मुदाऽनादृताख्यो जम्बूद्विपपतिः सुरः । शब्देन महताऽवादी-दहो ! मे कुलमुत्तमम् ।।१।। तदा च श्रेणिकोऽपृच्छद्भगवन्तं कृताञ्जलिः । देवोऽयमेवं स्वकुलप्रशंसां कुरुते कुतः ?।।२।। सर्वज्ञः कथयामास राजन्नत्रैव पत्तने । इभ्यो गुप्तमतिर्नाम बभूव भुवि विश्रुतः ।।३।। तस्य द्वौ तनुजन्मानावभूतां क्रमयोगतः । ज्यायानृषभदत्ताख्यो, जिनदासाभिधो लघुः ।।४।। ज्यायानतिसदाचारो द्यूतादिव्यसनी लघुः । तौ द्वावाद्यन्तयुगयोः प्रत्यक्षे इव वठणी ।।५।। ततश्चर्षभदत्तेन जिनदासः सुमेधसा । त्यक्तो दुराचार इति सर्वस्वजनसाक्षिकम् ।।६।। अहमभ्रातृकोऽस्मीति ज्येष्ठः स श्रेष्ठिसूर्वदन् । कनिष्ठस्य शुन इव प्रवेष्टुं न गृहेऽप्यदात् ।।७।। 1. चिरसञ्चितपापप्रणाशन्या, भवशतसहस्रमथन्या । चतुर्विंशतिजिनविनिर्गतकथया गच्छन्तु मम दिवसाः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy