________________
९२
तयोक्तम्- 'नैवं वद ।' यतः
44
44
"कंचणमणिसोवाणं, थंभसहस्सूसियं सुवण्णतलं
जो करिज्ज जिणहरं, तओ वि तवसंजमो अहिओ ।।" [ उ.मा ४९३, सम्बोधप्रकरण- १२५०]
'मन्नह जिणाण आणं' स्वाध्यायः
इत्यादि । ततः श्रेष्ठ अन्ते आर्त्या मृत्वा दानकर्मवशात् करी जातः, वृद्धापि सामायिकध्यानेन मृत्वा राजसुता जाता । कियता कालेन स करी तेनैव राज्ञा धृतः । स एकदा राजमार्गे स्वगृहादि दृष्ट्वा जातजातिस्मृतिमूर्च्छया भूमौ पपात । कथमपि तद्रष्टुं [ राजसुता ] तत्रागता । तस्या अपि स्वस्थानादि दृष्ट्वा जातिस्मृतिरुत्पन्ना [ पूर्वभववृत्तान्तं दृष्टवती], करी उत्थापितोऽपि नोत्तिष्ठति । ततो राजसुतयोक्तम्
45
"
'ऊठ सिठि मत भंत कर, करि हूअ दाणवसेण ।
हुं सामाइए यधुअ, बहुगुण सामाइअ तेण ।। "
इति वचः श्रुत्वा शीघ्रं करी उत्थितः । ततो नृपादीनां महदाश्चर्यं जातम् । पृष्टा सती सा सर्व पूर्वभवस्वरूपं कथितवती तत् श्रुत्वा बहुनां धर्मविषये आदरो जातः । सामायिकपरिपालनफले निश्चयो जातः ।
।। इति सामायिकफलविषये वृद्धस्त्रीकथा ।। [इइ सामाइय आवस्सयम् ]
१९. ‘प्राग्भववृत्तान्तमकथयत् । स करी तद्वचसा प्रबुद्धः । कालद्वये सामायिककरणाय भूमिं चक्षुर्थ्यां निरीक्ष्य स्वगुरूण्यभ्यर्णे समतया मुहूर्तं यावत्तिष्ठति भावसामायिकेन । ग्रहणपूर्णसमये च गुरुं नत्वा तिष्ठत्युत्तिष्ठति । भक्ष्याभक्ष्य-पेयापेयादिज्ञानपरः समाधिना पूर्णायुषा च मृत्वा सहस्रारे देवत्वं प्राप्तः ।'
"दानं सदा यच्छति मार्गणेभ्यः, सुवर्णभूमेः स्वपतिश्च कश्चित् । ततोऽप्यधिकं गदितं मुनीन्दैः सामायिके पुण्यमतो विधेयम् ।।" इति उपदेशप्रासादे नवमस्तम्भे अष्टात्रिंशदुत्तरशततमं व्याख्याने ।
44. काञ्चनमणिसोपानं स्तम्भसहस्त्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनगृहं ततोऽपि तपः संयमोऽधिकः ।।
45. उत्तिष्ठ श्रेष्ठिन् ! मा भ्रान्तं कुरु, [चित्तं त्वं ] करी भूतो दानवशेन ।
अहं सामायिकेन राजदुहिता बहुगुणः सामायिकस्तेन ।।