________________
१-छविह-आवस्सयंमि mmmmmmmmm
39
43
एवं चिय सव्वावस्सयाइं आपुच्छिऊण कज्जाइं । जाणाविअमामंतणवयणाओ जेण सव्वेसिं ।। सामाइअमाईअं भदंतसद्दो अ जं तयाईए । तेणाणुवत्तइ तओ करेमि भंते त्ति सव्वेसु ।। किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च । ऊसासाइं पमोत्तुं तदणापुच्छाइं पडिसिद्धं ।। गुरुविरहमि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहमि वि जिणबिंबसेवणामंतणं सफलं ।। रन्नो व परुक्खस्स वि जह सेवा मंतदेवयाए वा ।
तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेउं ।।" [वि.भा.-३४५७-५९, ३४६१-६६] [इति] सामायिकं करोति । एकदा द्वयोरपि केनाऽपि कारणेन दानसामायिकविषयेऽन्तरायो बभूव। तेन द्वयोरपि खेदः समभूत् । श्रेष्ठी वृद्धायाः खेदं श्रुत्वा प्राह - 'त्वयाऽद्य बहु बहु पडपडाकार्येति हास्यं चक्रे कर्मबन्धकारणमपि । यतः -
"सुखेन बध्यते कर्म तद्विपाकस्तु दुस्तरः । हसती धारयेत् कर्म रुदती च विमुञ्चति ।।
अयि खलु - विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । हरशिरसि यानि रेजुर्हरि-२ तानि लुठन्ति गृध्रपादे ।।"
१७
१६. 'अहो वस्त्रखण्डं गृहीत्वा हस्तादिप्रमार्जनं कृतं तेन किं पुण्यं गतम् ? तत्र धनव्ययस्तु कश्चिदपि न दृश्यते, इत्थं यदि धर्मः ___ समेति सदा क्रियते, लक्षखण्डिसुवर्णदानं न कोऽपि विदधाति ।' इति उपदेशप्रासादे । १७. अयं श्लोकोऽशुद्धो भाति, अतः स्वमत्या संशोध्यः । सम्पा. । 39. एवमेव सर्वावश्यकान्यापृच्छ्य कार्याणि । आज्ञपितमामन्त्रणवचनात् येन सर्वेषाम् ।। 40. सामायिकमादिकं भदन्तशब्दश्च यत्तदादौ । तेनानुवर्त्तते ततः करोमि भगवन् इति सर्वेषु ।। 41. कृत्याकृत्यं गुरवो विदन्ति विनयप्रतिपत्तिहेतुं च । उच्छ्वासादि प्रमुच्य तदनापृच्छादि प्रतिषिद्धम् ।। 42. गुरुविरहे च स्थापना गुरूपदेशोपदर्शनार्थं च । जिणविरहे इव जिणबिम्बसेवणामन्त्रणं सफलम् ।। 43. राज्ञ इव परोक्षस्यापि यथा सेवा मन्त्रदेवताया वा । तथैव परोक्षस्यापि गुरोः सेवा विनयहेतुः ।।