________________
~~~ 'मन्नह जिणाण आणं' स्वाध्यायः
"निवसन्नपि सममितरैरभिजातः शिक्षते न तच्चरितम् ।
ध्वांक्षो विरावी न पिकः, स्थितवानपि बलिभुजां भवति ।।" तस्स किर भगवतो दमदंतस्स दुज्जोहणे पंडवेसु अ समो भावो आसि । एवं कायव्वं सामाइअं ।।
॥इति दमदन्तकथा ।। अथ सामायिकफले सम्बन्धः -
"दिवसे दिवसे लक्खं, देइ सुवन्नस्स खंडियं एगो । इयरो पुण सामाइयं, करेइ न पहुप्पए तस्स ।।" [सम्बोधप्रकरण-१२३३]
॥अथ सामायिकफलविषये वृद्धस्त्रीकथा ।।। कस्मिन्नगरे कश्चित् श्रेष्ठी प्रत्यहं] पात्रापात्रविचारं विना दानशौंडत्वाल्लक्षं लक्षं] सुवर्णं दत्त्वा प्रातः खट्वातः समुत्तरति । एका च तत्प्रातिवेश्मिकी वृद्धा प्रत्यहं प्रातः सायं च 'जाहे खणं ताहे सामाइअं कुणइ' इत्युक्तेर्यदा तदा वा समयं प्राप्य सामायिकं करोति । सामायिककरणे 'करेमि भंते सामाइअं' इति सूत्रपाठप्रतिपत्तिः । भदंतेति गुर्वामन्त्रणं गुरुकुलवासोपसंग्रहार्थम् । यदुक्तम् -
“आमंतेइ करेमि भदंत ! सामाइयं ति सीसोऽयं ।
आहामंतणवयणं गुरुणो किं कारणमिणं ति ?।। भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहिअं ।। नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।।" “आँवस्सयं पि निच्चं गुरुपादमूलम्मि देसिअं होइ ।
वीसं पि ह संवसओ कारणओ जयइ सिज्जाए ।। १५. 'जदभि सेज्जाए' विशेष० भाष्ये । 33. तस्य किल भगवतो दमदन्तस्य दुर्योधने पाण्डवेषु च समभाव आसीत् । एवं कर्तव्यं सामायिकम् । 34. दिवसे दिवसे लक्षं ददाति सुवर्णस्य खण्डिकामेकः । इतरः पुनः सामायिकं करोति न प्रभवति तस्य ।। 35. आमन्त्रयति 'करोमि भगवन् ! सामायिकं' इति शिष्योऽयम् । आहामन्त्रणवचनं गुरोः किं कारणमिदमिति?।। 36. भण्यते गुरुकुलवासोपसंग्रहार्थं यथा गुणार्थीह । नित्यं गुरुकुलवासी भवेत् शिष्यो यतोऽभिहितम् ।। 37. ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ।। 38. आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वगपि खलु संवसतः कारणतो यतते शय्यायाम् ।।
36
37